नारदभक्तिसूत्रम्
Source: https://sa.wikisource.org/wiki/नारदभक्तिसूत्रम्
अथातो भक्तिं व्याख्यास्यामः ॥१॥
सा त्वस्मिन् परमप्रेमरूपा ॥२॥
अमृतस्वरूपा च ॥३॥
यल्लब्ध्वा पुमान्सिद्धो भवत्यमृतो भवति तृप्तो भवति ॥४॥
यत्प्राप्य ना किञ्चिद्वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ॥५॥
यज्ज्ञात्वा मत्तो भवति स्तब्धो भवत्यात्मारामो भवति ॥६॥
सा न कामयमाना निरोधरूपत्वात ॥७॥
निरोधस्तु लोकवेदव्यापारन्यासः ॥८॥
तस्मिन्ननन्यता तद्विरोधिषूदासीनता च ॥९॥
अन्याश्रयाणां त्यागोऽनन्यता ॥१०॥
लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता च ॥११॥
भवतु निश्चयदाढ्यादूर्ध्वं शास्त्ररक्षणम् ॥१२॥
अन्यथा पातित्यशङ्कया ॥१३॥
लोकोऽपि तावदेव भोजनादिव्यापारस्त्वाशरीरधारणावधि ॥१४॥
तल्लक्षणानि वाच्यन्ते नानामतभेदात॥१५॥
पूजादिष्वनुराग इति पाराशर्यः ॥१६॥
कथादिष्विति गर्गः ॥१७॥
आत्मरत्यविरोधेनेति शाण्डिल्यः ॥१८॥
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति ॥१९॥
अस्त्येवमेवम् ॥२०॥
यथा व्रजगोपिकानाम् ॥२१॥
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ॥२२॥
तद्विहीनं जाराणामिव ॥२३॥
नास्त्येव तस्मिंस्तत्सुखसुखित्वम् ॥२४॥
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा ॥२५॥
फलरूपत्वात् ॥२६॥
ईश्वरस्याप्यभिमानद्वेषित्वाद्दैन्यप्रियत्वाच्च ॥२७॥
तस्या ज्ञानमेव साधनमित्येके ॥२८॥
अन्योऽन्याश्रयत्वमित्यन्ये ॥२९॥
स्वयं फलरूपतेति ब्रह्मकुमारः ॥३०॥
राजगृहभोजनादिषु तथैव दृष्टत्वात॥३१॥
न तेन राजपरितोषः क्षुच्छान्तिर्वा ॥३२॥
तस्मात्सैव ग्राह्या मुमुक्षुभिः ॥३३॥
तस्याः साधनानि गायन्त्याचार्याः ॥३४॥
तत्तु विषयत्यागात्सङ्गत्यागाच्च ॥३५॥
अव्यावृत्तभजनात् ॥३६॥
लोकेऽपि भगवद्गुणश्रवणकीर्तनात् ॥३७॥
मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद्वा ॥३८॥
महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ॥३९॥
लभ्यतेऽपि तत्कृपयैव ॥४०॥
तस्मिंस्तज्जने भेदाभावात् ॥४१॥
तदेव साध्यतां तदेव साध्यताम् ॥४२॥
दुःसङ्गः सर्वथैव त्याज्यः ॥४३॥
कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशसर्वनाशकारणत्वात् ॥४४॥
तरङ्गायिता अपीमे सङ्गात्समुद्रायन्ति ॥४५॥
कस्तरति कस्तरति मायां यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति ॥४६॥
यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति, यो योगक्षेमं त्यजति ॥४७॥
यः कर्मफलं त्यजति कर्माणि संन्यस्यति ततो निर्द्वन्द्वो भवति ॥४८॥
यो वेदानपि संन्यस्यति केवलमविच्छिन्नानुरागं लभते ॥४९॥
स तरति स तरति लोकांस्तारयति ॥५०॥
अनिर्वचनीयं प्रेमस्वरूपम् ॥५१॥
मूकास्वादनवत् ॥५२॥
प्रकाशयते क्वापि पात्रे ॥५३॥
गुणरहितं कामनारहितं प्रतिक्षणवर्धमानमविच्छिन्नं सूक्ष्मतरमनुभवरूपम् ॥५४॥
तत्प्राप्य तदेवावलोकयति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति ॥५५॥
गौणी त्रिधा गुणभेदादार्तादिभेदाद्वा ॥५६॥
उत्तरस्मादुत्तरस्मात्पूर्वपूर्वा श्रेयाय भवति ॥५७॥
अन्यस्मात्सौलभ्यं भक्तौ ॥५८॥
प्रमाणान्त्रस्यानपेक्षत्वात्स्वयं प्रमाणत्वात॥५९॥
शान्तिरूपात्परमानन्दरूपाच्च ॥६०॥
लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् ॥६१॥
न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागस्तत्साधनं च कार्यमेव ॥६२॥
स्त्रीधननास्तिकवैरिचरित्रं न श्रवणीयम् ॥६३॥
अभिमानदम्भादिकं त्याज्यम् ॥६४॥
तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादि तस्मिन्नेव करणीयम् ॥६५॥
त्रिरूपभङ्गपूर्वकं नित्यदास्यनित्यकाञ्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् ॥६६॥
भक्ता एकान्तिनो मुख्याः ॥६७॥
कण्ठावरोधरोमाञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च ॥६८॥
तीर्थीकुर्वन्ति तीर्थानि सुकर्मीकुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि ॥६९॥
तन्मयाः ॥७०॥
मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति ॥७१॥
नास्ति तेषु जातिविद्यारूपकुलधनक्रियादिभेदः ॥७२॥
यतस्तदीयाः ॥७३॥
वादो नावलम्ब्यः ॥७४॥
बाहुल्यावकाशत्वादनियतत्वाच्च ॥७५॥
भक्तिशास्त्राणि मननीयानि तद्बोधककर्माणि करणीयानि ॥७६॥
सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्षमाणे क्षणार्धमपि व्यर्थं न नेयम् ॥७७॥
अहिंसासत्यशौचदयास्तिक्यादिचारित्र्याणि परिपालनीयानि ॥७८॥
सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः ॥७९॥
सङ्कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् ॥८०॥
त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी ॥८१॥
गुणमाहात्म्यास्क्ति-रूपासक्तिपूजासक्ति-स्मरणासक्ति-दास्यासक्ति-सख्यासक्ति-वात्सल्यासक्ति-कान्तासक्ति-आत्मनिवेदनासक्ति-तन्मयासक्ति-परमविरहासक्ति-रूपैकधाप्येकादशधा भवति ॥८२॥
इत्येवं वदन्ति जनजल्पनिर्भया एकमताः कुमारव्यासशुकशाण्डिल्यगर्गविष्णुकौण्डिन्यशेषोद्धवारुणिबलिहनूमद्विभीषणादयो भक्ताचार्याः ॥८३॥
य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धत्ते स भक्तिमान्भवति स प्रेष्ठं लभते स प्रेष्ठं लभत इति ॥८४॥
शाण्डिल्यभक्तिसूत्रम्
Source: https://sa.wikisource.org/wiki/शाण्डिल्यभक्तिसूत्रम्
http://shandilyabhaktisutra.blogspot.com/2018/02/
अथातो भक्तिजिज्ञासा ॥१॥
सा परानुरक्तिरीश्वरे ॥२॥
तत्संस्थस्यामृतत्वोपदेशात् ॥३॥
ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थिते: ॥४॥
तयोपक्षयाच्च ॥५॥
द्वेषप्रतिपक्षभावाद्रसशब्दाच्च राग: ॥६॥
न क्रिया कृत्यनपेक्षणाज्ज्ञानवत् ॥७॥
अत एव फ़लानन्त्यम् ॥८॥
तद्वत: प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत् ॥९॥
सा मुख्येतरापेक्षितत्वात् ॥१०॥
प्रकरणाच्च ॥११॥
दर्शनफ़लमिति चेन्न तेन व्यवधानात् ॥१२॥
दृष्टत्वाच्च ॥१३॥
अत एव तदभावाद्बल्लवीनाम् ॥१४॥
भक्त्या जानातीति चेन्नाभिज्ञप्त्या साहाय्यात् ॥१५॥
प्रागुक्तं च ॥१६॥
एतेन विकल्पोऽपि प्रयुक्त: ॥१७॥
देवभक्तिरितरस्मिन् साहचर्यात् ॥१८॥
योगस्तूभयार्थमपेक्षणात् प्रयाजवत् ॥१९॥
गौण्या तु समाधिसिद्धि: ॥२०॥
हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत् ॥२१॥
तदेव कर्मिज्ञानयोगिभ्य आधिक्यशब्दात् ॥२२॥
प्रश्ननिरूपणाभ्यामाधिक्यसिद्धे: ॥२३॥
नैव श्रद्धा तु साधारण्यात् ॥२४॥
तस्यां तत्त्वे चानवस्थानात् ॥२५॥
ब्रह्मकाण्डं तु भक्तौ तस्यानुज्ञानाय सामान्यात् ॥२६॥
बुद्धिहेतुप्रवृत्तिराविशुद्धेरवघातवत् ॥२७॥
तदङ्गानां च ॥२८॥
तामैश्वर्यपरां काश्यप: परत्वात् ॥२९ ॥
आत्मैकपरां बादरायण: ॥ ३० ॥
उभयपरां शाण्डिल्य: शब्दोपपत्तिभ्याम् ॥ ३१॥
वैषम्यादसिद्धमिति चेन्नाभिज्ञानवदवैशिष्ट्यात् ॥३२॥
न च क्लिष्ट: पर: स्यादनन्तरं विशेषात् ॥३३॥
ऐश्वर्यं तथेति चेन्न स्वाभाव्यात् ॥३४॥
अप्रतिषिद्धं परैश्वर्यं तद्भावाच्च नैवमितरेषाम् ॥३५॥
सर्वानृते किमिति चेन्नैवं बुद्ध्यानन्त्यात् ॥३६॥
प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानात् ॥३७॥
तत्प्रतिष्ठा गृहपीठवत् ॥३८॥
मिथोऽपेक्षणादुभयम् ॥३९॥
चेत्यचितोर्न तृतीयम् ॥४०॥
युक्तौ च सम्परायात् ॥४१॥
शक्तित्वान्नानृतं वेद्यम् ॥४२॥
तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्य: ॥४३॥
सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्यातितदर्थप्राणस्थानतदीयतासर्वतद् भावा प्रातिकूल्यादीनि च स्मरणेभ्यो बाहुल्यात् ॥४४॥
द्वेषादयस्तु नैवम् ॥४५॥
यद्वाक्यशेषात् प्रादुर्भावेष्वपि सा ॥४६॥
जन्मकर्मविदश्चाजन्मशब्दात् ॥४७॥
तच्च दिव्यं स्वशक्तिमात्रोद्भवात् ॥४८॥
मुख्यं तस्य हि कारुण्यम् ॥४९॥
प्राणित्वान्न विभूतिषु ॥५०॥
द्यूतराजसेवयो: प्रतिषेधाच्च ॥५१॥
वासुदेवेऽपीति चेन्नाकरमात्रत्वात् ॥५२॥
प्रत्यभिज्ञानाच्च ॥५३॥
वृष्णिषु श्रैष्ठ्येन तत् ॥५४॥
एवं प्रसिद्धेषु च ॥५५॥
भक्त्या भजनोपसंहाराद्गौण्या परायैतद्धेतुत्वात् ॥५६॥
रागार्थप्रकीर्त्तिसाहचर्याच्चेतरेषाम् ॥५७॥
अन्तराले तु शेषा: स्युरुपास्यादौ च काण्डत्वात् ॥५८॥
ताभ्य: पावित्र्यमुपक्रमात् ॥५९॥
तासु प्रधानयोगात् फ़लाधिक्यमेके ॥६०॥
नाम्नेति जैमिनि: सम्भवात् ॥६१॥
अत्राङ्गप्रयोगाणां यथाकालसम्भवो गृहादिवत् ॥६२॥
ईश्वरतुष्टेरेकोऽपि बली ॥६३॥
अबन्धोऽर्पणस्य मुखम् ॥६४॥
ध्याननियमस्तु दृष्टसौकर्यात् ॥६५॥
तद्यजि: पूजयामितरेषां नैवम् ॥६६॥
पादोदकं तु पाद्यमव्याप्ते: ॥६७॥
स्वयमर्पितं ग्राह्यमविशेषात् ॥६८॥
निमित्तगुणाव्यपेक्षणादपरधेषु व्यवस्था ॥६९॥
पत्रादेर्दानमत्यथा हि वैशिष्ट्यम् ॥७०॥
सुकृतजत्वात् परहेतुभावाच्च क्रियासु श्रेयस्य: ॥७१॥
गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम् ॥७२॥
बहिरन्तरस्थमुभयमवेष्टिसववत् ॥७३॥
स्मृतिकीर्त्यो: कथादेश्चार्तौ प्रायश्चित्तभावात् ॥७४॥
भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्महत्स्वपि ॥७५॥
लब्ध्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात् ॥७६॥
तत्स्थानत्वादनन्यधर्म: खले बालीवत् ॥७७॥
आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत् ॥७८॥
अतो ह्यविपक्वभावानामपि तल्लोके ॥ ७९॥
क्रमैकगत्युपपत्तेस्तु ॥८०॥
उत्क्रान्तिस्मृतिवाक्यशेषाच्च ॥८१॥
महापातकिनां त्वार्तौ ॥८२॥
सैकान्तभावो गीतार्थप्रत्यभिज्ञानात् ॥८३॥
परां कृत्वैव सर्वेषां तथा ह्याह ॥८४॥
भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात् ॥८५॥
तच्छक्तिर्माया जडसामान्यात् ॥८६॥
व्यापकत्वाद्व्याप्यानाम् ॥८७॥
न प्राणिबुद्धिभ्योऽसम्भवात् ॥८८॥
निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पितृवत् ॥८९॥
मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात् ॥९०॥
फ़लमस्माद्बादरायणो दृष्टत्वात् ॥९१॥
व्युत्क्रमादप्ययस्तथा दृष्टम् ॥९२॥
तदैक्यं नानात्वैकत्वमुपाधियोगहानादादित्यवत् ॥९३॥
पृथगिति चेन्न परेणासम्बन्धात् प्रकाशानाम् ॥९४॥
न विकारिणस्तु करणविकारात् ॥९५॥
अनन्यभक्त्या तद्बुद्धिर्बुद्धिलयादत्यन्तम् ॥९६॥
आयुश्चिरमितरेषां तु हानिरनास्पदत्वात् ॥९७॥
संसृतिरेषामभक्ति: स्यान्नाज्ञानात् कारणासिद्धे: ॥९८॥
त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत् ॥९९॥
आविस्तिरोभावा विकारा: स्यु: क्रियाफ़लसंयोगात् ॥१००॥