top of page

संस्कृत काव्य

सुन्दरविश्वमिदम्

केन निर्मितं कथं निर्मितं सुन्दरविश्वमिदम् ।

चित्रविचित्रं मधुरं दिव्यं सुन्दरविश्वमिदम् ॥

 

उज्ज्वलसूर्यः मधुमयचन्द्रः नीलं गगनतलम् ।

केन निर्मितं कथं निर्मितं सुन्दरविश्वमिदम् ॥

 

कियान् सुन्दरः नीलसागरः रुचिरम् ऊर्मिकुलम् ।

केन निर्मितं कथं निर्मितं सुन्दरविश्वमिदम् ॥

 

विविधपादपाः विविधजन्तवः रम्यं गहनवनम् ।

केन निर्मितं कथं निर्मितं सुन्दरविश्वमिदम् ॥

 

--- स‍म्पदानन्दमिश्र

प्रियं भारतम्

प्रकृत्या सुरम्यं विशालं प्रकामं
सरित्तारहारै: ललामं निकामम् ।
हिमाद्रिर्ललाटे पदे चैव सिन्धु:
प्रियं भारतं सर्वथा दर्शनीयम् ।।१।।

 

धनानां निधानं धरायां प्रधानं
इदं भारतं देव लोकेन तुल्यम् ।
यशो यस्य शुभ्रं विदेशेषु गीतं
प्रियं भारतं तत् सदा पूजनीयम् ।।२।।

 

 

अनेका प्रदेशा अनेकाश्च वेशा:
अनेकानि रूपाणि भाषा अनेका:।
परं यत्र सर्वे वयं भारतीया:
प्रियं भारतं तत् सदा रक्षणीयम् ।।३।।

 

 

सुधीरा जना यत्र युद्धेषु वीराः
शरीरार्पणेनापि रक्षन्ति देशम् ।
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः
प्रियं भारतं तत् सदा श्लाघनीयम् ।।४।।

 

 

वयं भारतीयाः स्वभूमिं नमामः
परं धर्ममेकं सदा मानयामः ।
तदर्थं धनं जीवनं चार्पयामः
प्रियं भारतं तत् सदा वन्दनीयम् ।।५।।

 

--- डा० चन्द्रभानु त्रिपाठी

  • YouTube
bottom of page