काशीविश्वनाथसुप्रभातम्
विश्वेशं माधवं धुण्डिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥१॥
उत्तिष्ठ काशि भगवान् प्रभुविश्वनाथो
गङ्गोर्मिसंगतिशुभैः परिभूषितोऽब्जैः ।
श्रीधुण्डिभैरवमुखैः सहिताऽऽन्नपूर्णा
माता च वाञ्छति मुदा तव सुप्रभातम् ॥२॥
ब्रह्मा मुरारिस्त्रिपुरान्तकारिः
भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनिराहुकेतवः
कुर्वन्तु सर्वे भुवि सुप्रभातम् ॥३॥
वाराणसीस्थितगजाननधुण्डिराज
तापत्रयापहरणे प्रथितप्रभाव ।
आनन्दकन्दलकुलप्रसवैकभूमे
नित्यं समस्तजगतः कुरु सुप्रभातम् ॥४॥
ब्रह्मद्रवोपमितगाङ्गपयःप्रवाहैः
पुण्यैः सदैव परिचुंबितपादपद्मे ।
मध्येऽखिलामरगणैः परिसेव्यमाने
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥५॥
प्रत्नैरसंख्यमठमन्दिरतीर्थकुण्ड
प्रासादघट्टनिवहैः विदुषां वरैश्च ।
आवर्जयस्यखिलविश्वमनांसि नित्यं
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥६॥
के वा नरा नु सुधियः कुधियो।ऽधियो वा
वाञ्छन्ति नान्तसमये शरणं भवत्याः ।
हे कोटिकोटिजनमुक्तिविधानदक्षे
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥७॥
या देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगैः
नागैर्भूतलवासिभिर्द्विजवरैस्संसेविता सिद्धये ।
या गङ्गोत्तरवाहिनीपरिसरे तीर्थैरसंख्यैर्वृता
सा काशी त्रिपुरारिराजनगरी देयात् सदा मङ्गलम् ॥८॥
तीर्थानां प्रवरा मनोरथकरी संसारपारापरा
नन्दानन्दिगणेश्वरैरुपहिता देवैरशेषैःस्तुता ।
या शंभोर्मणिकुण्डलैककणिका विष्णोस्तपोदीर्घिका
सेयं श्रीमणिकर्णिका भगवती देयात् सदा मङ्गलम् ॥ ९॥
अभिनवबिसवल्ली पादपद्मस्य विSणोः
मदनमथनमौलेर्मालती पुष्पमाला ।
जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः
क्षपितकलिकलङ्का जाह्नवी नः पुनातु ॥ १०॥
गाङ्गं वारि मनोहारि मुरारिचरणच्युतम् ।
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥ ११॥
विघ्नावासनिवासकारणमहागण्डस्थलालंबितः
सिन्दूरारुणपुञ्जचन्द्रकिरणप्रच्छादिनागच्छविः ।
श्रीविघ्नेश्वरवल्लभो गिरिजया सानन्दमानन्दितः (पाठभेद — श्रीविश्वेश्वर)
स्मेरास्यस्तव धुण्डिराजमुदितो देयात् सदा मङ्गलम् ॥ १२॥
कण्ठे यस्य लसत्करालगरलं गङ्गाजलं मस्तके
वामाङ्गे गिरिराजराजतनया जाया भवानी सती ।
नन्दिस्कन्दगणाधिराजसहितः श्रीविश्वनाथप्रभुः
काशीमन्दिरसंस्थितोऽखिलगुरुः देयात् सदा मङ्गलम् ॥ १३॥
श्रीविश्वनाथ करुणामृतपूर्णसिन्धो
शीतांशुखण्डसमलंकृतभव्यचूड ।
उत्तिष्ठ विश्वजनमङ्गलसाधनाय
नित्यं सर्वजगतः कुरु सुप्रभातम् ॥ १४॥
श्रीविश्वनाथ वृषभध्वज विश्ववन्द्य
सृष्टिस्थितिप्रलयकारक देवदेव ।
वाचामगोचर महर्षिनुताङ्घ्रिपद्म
वाराणसीपुरपते कुरु सुप्रभातम् ॥ १५॥
श्रीविश्वनाथ भवभञ्जन दिव्यभाव
गङ्गाधर प्रमथवन्दित सुन्दराङ्ग ।
नागेन्द्रहार नतभक्तभयापहार
वाराणसीपुरपते कुरु सुप्रभातम् ॥ १६॥
श्रीविश्वनाथ तव पादयुगं नमामि
नित्यं तवैव शिव नाम हृदा स्मरामि ।
वाचं तवैव यशसाऽनघ भूषयामि
वाराणसीपुरपते कुरु सुप्रभातम् ॥ १७॥
काशीनिवासमुनिसेवितपादपद्म
गङ्गाजलौघपरिषिक्तजटाकलाप ।
अस्याखिलस्य जगतः सचराचरस्य
वाराणसीपुरपते कुरु सुप्रभातम् ॥१८॥
गङ्गाधराद्रितनयाप्रिय शान्तमूर्ते
वेदान्तवेद्य सकलेश्वर विश्वमूर्ते ।
कूटस्थ नित्य निखिलागमगीतकीर्ते
वाराणसीपुरपते कुरु सुप्रभातम् ॥१९॥
विश्वं समस्तमिदमद्य घनान्धकारे
मोहात्मके निपतितं जडतामुपेतम् ।
भासा विभास्य परया तदमोघशक्ते
वाराणसीपुरपते कुरु सुप्रभातम् ॥२०॥
सूनुः समस्तजनविघ्नविनासदक्षो
भार्याऽन्नदाननिरताऽविरतं जनेभ्यः ।
ख्यातः स्वयं च शिवकृत् सकलार्थिभाजां
वाराणसीपुरपते कुरु सुप्रभातम् ॥२१॥
ये नो नमन्ति न जपन्ति न चामनन्ति
नो वा लपन्ति विलपन्ति निवेदयन्ति ।
तेषामबोधशिशुतुल्यधियां नराणां
वाराणसीपुरपते कुरु सुप्रभातम् ॥२२॥
श्रीकण्ठ कण्ठधृतपन्नग नीलकण्ठ
सोत्कण्ठभक्तनिवहोपहितोपकण्ठ ।
भस्माङ्गरागपरिशोभितसर्वदेह
वाराणसीपुरपते कुरु सुप्रभातम् ॥२३॥
श्रीपार्वतीहृदयवल्लभ पञ्चवक्त्र
श्रीनीलकण्ठ नृकपालकलापमाल ।
श्रीविश्वनाथ मृदुपङ्कजमञ्जुपाद
वाराणसीपुरपते कुरु सुप्रभातम् ॥२४॥
दुग्धप्रवाहकमनीयतरङ्गभङ्गे
पुण्यप्रवाहपरिपावितभक्तसङ्गे ।
नित्यं तपस्विजनसेवितपादपद्मे
गङ्गे शरण्यशिवदे कुरु सुप्रभातम् ॥२५॥
सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ २६॥
प्रातःस्मरणस्तोत्रम्
श्रीमदाद्याचार्यभगवन्निम्बार्कमहामुनीन्द्रकृतम्
[ वसन्ततिलका ]
प्रातः स्मरामि युगकेलिरसाभिषिक्तं
वृन्दावनं सुरमणीयम् उदारवृक्षम् ।
सौरीप्रवाहवृतम् आत्मगुणप्रकाशं
युग्माङ्घ्रिरेणुकणिकाञ्चितसर्वसत्त्वम् ॥१॥
प्रातः स्मरामि दधिघोषविनीतनिद्रं
निद्रावसानरमणीयमुखानुरागम् ।
उन्निद्रपद्मनयनं नवनीरदाभं
हृदानवद्यललनाञ्चितवामभागम् ॥२॥
प्रातर्भजामि शयनोत्थितयुग्मरूपं
सर्वेश्वरं सुखकरं रसिकेशभूपम् ।
अन्योन्यकेलिरसचिह्नसखीदृगौघं
सख्यावृतं सुरतकाममनोहरं च ॥३॥
प्रातर्भजे सुरतसारपयोधिचिह्नं
गण्डस्थलेन नयनेन च सन्दधानौ ।
रत्याद्यशेषशुभदौ समुपेतकामौ
श्रीराधिकावरपुरन्दरपुण्यपुञ्जौ ॥४॥
प्रातर्धरामि हृदयेन हृदीक्षणीयं
युग्मस्वरूपमनिशं सुमनोहरं च ।
लावण्यधाम ललनाभिरुपेयमानम्
उत्थाप्यमानमनुमेयमशेषवेषैः ॥५॥
प्रातर्ब्रवीमि युगलावपि सोमराजौ
राधामुकुन्दपशुपालसुतौ वरिष्ठौ ।
गोविन्दचन्द्रवृषभानुसुतौ वरिष्ठौ
सर्वेश्वरौ स्वजनपालनतत्परेशौ ॥६॥
प्रातर्नमामि युगलाङ्घ्रिसरोजकोशम्
अष्टाङ्गयुक्तवपुषा भवदुःखदारम् ।
वृन्दावने सुव्चरन्तमुदारचिह्नं
लक्ष्म्या उरोजधृतकुङ्कुमरागपुष्टम् ॥७॥
प्रातर् नमामि वृषभानुसुतापदाब्जं
नेत्रालिभिः परिणुतं व्रजसुन्दरीणाम् ।
प्रेमातुरेण हरिणा सुविशारदेन
श्रीमद्व्रजेशतनयेन सदाभिवन्द्यम् ॥८॥
सञ्चितनीयमनुमृत्यमभीष्टदोहं
संसारतापशमनं चरणं महार्हम् ।
नन्दात्मजस्य सततं मनसा गिरा च
संसेवयामि वपुषा प्रणयेन रम्यम् ॥९॥
प्रातः स्तवमिमं पुण्यं प्रातरुत्थाय यः पठेत् ।
सर्वकालं क्रियास्तस्य सफलाः स्युः सदा ध्रुवाः ॥
গুরুস্তোত্রম্
অখন্ডমণ্ডলাকারং ব্যাপ্তং য়েন চরাচরম্ ।
তত্পদং দর্শিতং য়েন তস্মৈ শ্রীগুরবে নমঃ ॥১॥
অজ্ঞানতিমিরান্ধস্য জ্ঞানাঞ্জনশলাকয়া ।
চক্ষুরুন্মীলিতং য়েন তস্মৈ শ্রীগুরবে নমঃ ॥২॥
গুরুর্ব্রহ্মা গুরুর্বিষ্ণু গুরুর্দেবো মহেশ্বরঃ ।
গুরুরেব* পরব্রহ্ম তস্মৈ শ্রীগুরবে নমঃ ॥৩॥
(গুরু সাক্ষাৎ - পাঠান্তর)
স্থাবরং জঙ্গমং ব্যাপ্তং যৎ কিঞ্চিৎ সচরাচরম্ ।
তৎপদং দর্শিতং য়েন তস্মৈ শ্রীগুরবে নমঃ ॥৪॥
চিন্ময়ং ব্যাপি য়ৎসর্বং ত্রৈলোক্যং সচরাচরম্ ।
তৎপদং দর্শিতং য়েন তস্মৈ শ্রীগুরবে নমঃ ॥৫||
সর্বশ্রুতিশিরোরত্নবিরাজিতপদাম্বুজঃ ।
বেদান্তাম্বুজসূর্যো য়স্তস্মৈ শ্রীগুরবে নমঃ ॥৬॥
চৈতন্যঃ শাশ্বতঃ শান্তো ব্যোমাতীতো নিরঞ্জনঃ |
বিন্দুনাদকলাতীতস্তস্মৈ শ্রীগুরবে নমঃ ॥৭॥
জ্ঞানশক্তিসমারূঢস্তত্ত্বমালাবিভূষিতঃ ।
ভক্তিমুক্তিপ্রদাতা* চ তস্মৈ শ্রীগুরবে নমঃ ॥৮॥
(*ভুক্তিমুক্তিপ্রদাতা – পাঠান্তর)
অনেকজন্মসম্প্রাপ্তকর্মবন্ধবিদাহিনে ।
আত্মজ্ঞানপ্রদানেন তস্মৈ শ্রীগুরবে নমঃ ॥৯॥
শোষণং ভবসিন্ধোশ্চ জ্ঞাপনং সারসম্পদঃ ।
গুরোঃ পাদোদকং সম্যক্ তস্মৈ শ্রীগুরবে নমঃ ॥১০॥
ন গুরোরধিকং তত্ত্বং ন গুরোরধিকং তপঃ ।
তত্ত্বজ্ঞানাৎ পরং নাস্তি তস্মৈ শ্রীগুরবে নমঃ ॥১১॥
মন্নাথঃ শ্রীজগন্নাথঃ মদ্গুরুঃ শ্রীজগদগুরুঃ ।
মমাত্মা সর্বভূতাত্মা তস্মৈ শ্রীগুরবে নমঃ ॥১২॥
গুরুরাদিরনাদিশ্চ গুরুঃ পরমদৈবতম্ ।
গুরোঃ পরতরং নাস্তি তস্মৈ শ্রীগুরবে নমঃ ॥১৩॥
ত্বমেব মাতা চ পিতা ত্বমেব
ত্বমেব বন্ধুশ্চ সখা ত্বমেব ।
ত্বমেব বিদ্যা দ্রবিণং ত্বমেব
ত্বমেব সর্বং মম দেবদেব ॥১৪॥
शिवमानसपूजा
रत्नैः कल्पतमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ।।
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ।।
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदग्काहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ।।
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ।।
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ।।
।। इति श्रीमच्छंकराचार्यविरचिता शिवमानसपूजा समाप्ता ।।
पशुपत्यष्टकम्
पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् ।
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥१॥
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥२॥
मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् ।
प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥३॥
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् ।
अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम् ॥४॥
नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम् ॥५॥
मखविनाशकरं शिशिशेखरं सततमध्वरभाजिफलप्रदम् ।
प्रळयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् ॥६॥
मदमपास्य चिरं हृदि संस्थितं मरणजन्मजरामयपीडितम् ।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ॥७॥
हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कॄतम् ।
त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥८॥
पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा ।
पठति संश्रृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम् ॥९॥
वेदसारशिवस्तोत्रम्
आदिशङ्कराचार्य
पशूनां पतिं पापनाशं परेशं
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
महादेवमेकं स्मरामि स्मरारिम् ॥ १ ॥
महेशं सुरेशं सुरारातिनाशं
विभुं विश्वनाथं विभूत्यङ्गभूषम् ।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २ ॥
गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
भवानीकलत्रं भजे पञ्चवक्त्रम् ॥ ३ ॥
शिवाकान्त शंभो शशाङ्कार्धमौले
महेशान शूलिञ्जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूपः
प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥
परात्मानमेकं जगद्बीजमाद्यं
निरीहं निराकारमोंकारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं
तमीशं भजे लीयते यत्र विश्वम् ॥ ५ ॥
न भूमिर्नं चापो न वह्निर्न वायु-
र्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो
न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६ ॥
अजं शाश्वतं कारणं कारणानां
शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम् ॥ ७ ॥
नमस्ते नमस्ते विभो विश्वमूर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८ ॥
प्रभो शूलपाणे विभो विश्वनाथ
महादेव शम्भो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ९ ॥
शंभो महेश करुणामय शूलपाणे
गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेक-
स्त्वंहंसि पासि विदधासि महेश्वरोऽसि ॥ १० ॥
त्वत्तो जगद्भवति देव भव स्मरारे
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश
लिङ्गात्मके हर चराचरविश्वरूपिन् ॥ ११ ॥
बिल्वाष्टकम्
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम् ॥ १॥
त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।
शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ २॥
अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥ ३॥
शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् ।
सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ ४॥
दन्तिकोटि सहस्राणि वाजपेय शतानि च ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ ५॥
लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् ।
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥ ६॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारमेकबिल्वं शिवार्पणम् ॥ ७॥
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
प्रयागमाधवं* दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥
(*प्रयागे माधवं — पाठान्तरम्)
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥ ८॥
बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ॥
॥ इति बिल्वाष्टकम् ॥
पाठभेद —
तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा ।
पञ्चबिल्वमिति ख्याता एकबिल्वं शिवार्पणम् ॥ ५॥
तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् ।
कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ६॥
दन्त्यश्वकोटिदानानि अश्वमेधशतानि च ।
कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ७॥
सालग्रामसहस्राणि विप्रान्नं शतकोटिकम् ।
यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ८॥
अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत् ।
तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ ९॥
एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत् ।
महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥ १०॥
अमृतोद्भववृक्षस्य महादेवप्रियस्य च ।
मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः ॥ ११॥