top of page

भर्तृहरि-शतकत्रयम् ( Bhartrhari Shataktrayam )

नीतिशतकम्

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।

स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥१॥

यं चिन्तयामि सततं मयि सा विरक्ता

साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः

अस्मत्कृते च परिशुष्यति काचिदन्या

धिक् तं च तां च मदनं च इमां च मां च

 

बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । 
अबोधोपहताः चान्ये जीर्णमङ्गे सुभाषितं ॥२॥

 

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । 
ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ॥३॥


प्रसह्य मणिं उद्धरेन्मकरवक्त्रदंष्ट्रान्तरात् 
समुद्रं अपि सन्तरेत्प्रचलदूर्मिमालाकुलम् । 
भुजङ्गं अपि कोपितं शिरसि पुष्पवद्धारयेत् 
न तु प्रतिनिविष्टमूऋखजनचित्तं आराधयेथ् ॥४॥

लभेत सिकतासु तैलमपि यत्नतः पीडयन् 
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । 
क्वचिदपि पर्यटन्शशविषाणं आसादयेत् 
न तु प्रतिनिविष्टमूर्खचित्तं आराधयेथ् ॥५॥

 

प्रायः कन्दुकपातेनोत्पतत्यार्यः पतन्नपि
तथा पतत्यनार्यस्तु मृत्पिण्डपतनं तथा 

 

व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते 
छेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यति । 
माधुर्यं मधुबिन्दुना रचयितुं क्षारामुधेरीहते 
नेतुं वाञ्छन्ति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ॥६॥

स्वायत्तं एकान्तगुणं विधात्रा
विनिर्मितं छादनं अज्ञतायाः । 
विशेषतः सर्वविदां समाजे 
विभूषणं मौनमपण्डितानां ॥७॥

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं 
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः 
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं 
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥८॥

कृमिकुलचित्तं लालाक्लिन्नं विगन्धिजुगुप्सितं 
निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषं । 
सुरपतिं अपि श्वा पार्श्वस्थं विलोक्य न शङ्कते 
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुतां ॥९॥

शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं 
म्हीध्रादुत्तुङ्गादवनिं अवनेश्चापि जलधिं । 
अधोऽधो गङ्गेयं पदं उपगता स्तोकम् 
अथवाविवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥१०॥ 

शक्यो वारयितुं जलेन हुतभुक्च्छत्रेण सूर्यातपो 
नागेन्द्रो निशिताग्कुशेन समदो दण्डेन गोगर्दभौ । 
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं 
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नस्त्यौषधिम् ॥११॥

साहित्यसङ्गीतकलाविहीनः 
साक्षात्पशुः पुच्छविषाणहीनः । 
तृणं न खादन्नपि जीवमानस् 
तद्भागधेयं परमं पशूनां ॥१२॥

येषां न विद्या न तपो न दानं 
ज्ञानं न शीलं न गुणो न धर्मः । 
ते मर्त्यलोके भुवि भारभूता 
मनुष्यरूपेण मृगाश्चरन्ति ॥१३॥

वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह 
न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥१४॥

शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा 
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः । 
तज्जाड्यं वसुधादिपस्य कवयस्त्वर्थं विनापीश्वराः 
कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥१५॥

हर्तुर्याति न गोचरं किं अपि शं पुष्णाति यत्सर्वदाऽप्य् 
अर्थिभ्यः प्रतिपाद्यमानं अनिशं प्राप्नोति वृद्धिं परां । 
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यं अन्तर्धनं 
येषां तान्प्रति मानं उज्झत नृपाः कस्तैः सह स्पर्धते ॥१६॥

 

अधिगतपरमार्थान्पण्डितान्मावमंस्थास् 
तृणं इव लघु लक्ष्मीर्नैव तान्संरुणद्धि । 
अभिनवमदलेखाश्यामगण्डस्थलानां 
न भवति बिसतन्तुर्वारणं वारणानाम् ॥१७॥

अम्भोजिनीवनविहारविलासं एव 
हंसस्य हन्ति नितरां कुपितो विधाता । 
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां 
वैदग्धीकीर्तिं अपहर्तुं असौ समर्थः ॥१८॥ 

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला 
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः । 
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते 
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥१९॥

विद्या नाम नरस्य रूपं अधिकं प्रच्छन्नगुप्तं धनं 
विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । 
विद्या बन्धुजनो विदेशगमने विद्या परा देवता 
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥२०॥ 

क्षान्तिश्चेत्कवचेन किं किं अरिभिः क्रोधोऽस्ति चेद्देहिनां 
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलं । 
किं सर्पैर्यदि दुर्जनाः किं उ धनैर्विद्याऽनवद्या यदि 
व्रीडा चेत्किं उ भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥२१॥

दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने 
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवं । 
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता 
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥२२॥


जाड्यं धियो हरति सिञ्चति वाचि सत्यं 
मानोन्नतिं दिशति पापं अपाकरोति । 
चेतः प्रसादयति दिक्षु तनोति कीर्तिं 
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥२३॥

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । 
नास्ति येषां यशःकाये जरामरणजं भयं ॥२४॥ 

सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः 
स्निग्धं मित्रं अवञ्चकः परिजनो निःक्लेशलेशं मनः । 
आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं 
तुष्टे विष्टपकष्टहारिणि हरौ सम्प्राप्यते देहिना ॥२५॥

प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं 
काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषां । 
तृष्णास्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा 
सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसां एष पन्थाः ॥२६॥

प्रारभ्यते न खलु विघ्नभयेन नीचैः 
प्रारभ्य विघ्नविहता विरमन्ति मध्याः । 
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः 
प्रारब्धं उत्तमजना न परित्यजन्ति ॥२७॥

असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः 
प्रिया न्याय्या वृत्तिर्मलिनं असुभङ्गेऽप्यसुकरं । 
विपद्युच्चैः स्थेयं पदं अनुविधेयं च महतां 
सतां केनोद्दिष्टं विषमं असिधाराव्रतं इदम् ॥२८॥
 

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशाम् 
आपन्नोऽपि विपन्नदीधितिरिति प्राणेषु नश्यत्स्वपि । 
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः 
किं जीर्णं तृणं अत्ति मानमहतां अग्रेसरः केसरी ॥२९ ॥

स्वल्पस्नायुवसावशेषमलिनं निर्मांसं अप्यस्थि गोः 
श्वा लब्ध्वा परितोषं एति न तु तत्तस्य क्षुधाशान्तये । 
सिंहो जम्बुकं अङ्कं आगतं अपि त्यक्त्वा निहन्ति द्विपं 
सर्वः कृच्छ्रगतोऽपि वाञ्छन्ति जनः सत्त्वानुरूपं फलम् ॥३०॥


लाङ्गूलचालनं अधश्चरणावपातं 
भूमौ निपत्य वदनोदरदर्शनं च । 
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु 
धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥३१॥ 

परिवर्तिनि संसारे मृतः को वा न जायते । 
स जातो येन जातेन याति वंशः समुन्नतिम् ॥३२॥ 

कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः । 
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥३३॥

सन्त्यन्येऽपि बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषास् 
तान्प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते । 
द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्करौ 
भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥३४॥ 


वहति भुवनश्रेणिं शेषः फणाफलकस्थितां 
कमठपतिना मध्येपृष्ठं सदा स च धार्यते । 
तं अपि कुरुते क्रोडाधीनं पयोधिरनादराद् 
अहह महतां निःसीमानश्चरित्रविभूतयः ॥३५॥

वरं पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैर् 
उद्गच्छद्बहुलदहनोद्गारगुरुभिः । 
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे 
न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥३६॥

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । 
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥३७॥

जातिर्यातु रसातलं गुणगणैस्तत्राप्यधो गम्यतां 
शीलं शैलतटात्पतत्वभिजनः सन्दह्यतां वह्निना । 
शौर्ये वैरिणि वज्रं आशु निपतत्वर्थोऽस्तु नः केवलं 
येनैकेन विना गुणस्तृणलवप्रायाः समस्ता इमे ॥३८॥

धनं अर्जय काकुत्स्थ धनमूलं इदं जगत् । 
अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥३९॥

तानीन्द्रियाण्यविकलानि तदेव नाम 
सा बुद्धिरप्रतिहता वचनं तदेव । 
अर्थोष्मणा विरहितः पुरुषः क्षणेन 
सोऽप्यन्य एव भवतीति विचित्रं एतथ् ॥४०॥

यस्यास्ति वित्तं स नरः कुलीनः 
स पण्डितः स श्रुतवान्गुणज्ञः । 
स एव वक्ता स च दर्शनीयः 
सर्वे गुणाः काञ्चनं आश्रयन्ति ॥४१॥

दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालनात् 
विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । 
ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान् 
मैत्री चाप्रणयात्समृद्धिरनयात्त्यागप्रमादाद्धनम् ॥४२॥

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । 
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥४३॥

मणिः शाणोल्लीढः समरविजयी हेतिदलितो 
मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः । 
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता 
तन्निम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ॥४४॥

परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये 
स पश्चात्सम्पूर्णः कलयति धरित्रीं तृणसमां । 
अतश्चानैकान्त्याद्गुरुलघुतयाऽर्थेषु धनिनाम् 
अवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥४५॥ 

राजन्दुधुक्षसि यदि क्षितिधेनुं एतां 
तेनाद्य वत्सं इव लोकं अमुं पुषाण 
तस्मिंश्च सम्यगनिशं परिपोष्यमाणे 
नानाफलैः फलति कल्पलतेव भूमिः ॥४६॥

सत्यानृता च परुषा प्रियवादिनी च 
हिंस्रा दयालुरपि चार्थपरा वदान्या । 
नित्यव्यया प्रचुरनित्यधनागमा च 
वाराङ्गनेव नृपनीतिरनेकरूपा ॥४७॥

आज्ञा कीर्तिः पालनं ब्राह्मणानां 
दानं भोगो मित्रसंरक्षणं च 
येषां एते षड्गुणा न प्रवृत्ताः 
कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥४८॥

यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं 
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकं । 
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः 
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥४९॥

त्वं एव चातकाधारोऽ सीति केषां न गोचरः । 
किं अम्भोदवरास्माकं कार्पण्योक्तं प्रतीक्षसे ॥५०॥

रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् 
अम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः । 
केचिद्वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्वृथा 
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥५१॥


अकरुणत्वं अकारणविग्रहः 
परधने परयोषिति च स्पृहा । 
सुजनबन्धुजनेष्वसहिष्णुता 
प्रकृतिसिद्धं इदं हि दुरात्मनाम् ॥५२॥

दुर्जनः परिहर्तव्यो 
विद्ययाऽलकृतोऽपि सन् । 
मणिना भूषितः सर्पः 
किं असौ न भयङ्करः ॥५३॥


जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं 
शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि । 
तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे 
तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः॥५४॥

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः 
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किं । 
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः 
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥५५॥
 

शशी दिवसधूसरो गलितयौवना कामिनी 
सरो विगतवारिजं मुखं अनक्षरं स्वाकृतेः । 
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो 
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥५६॥

न कश्चिच्चण्डकोपानाम् आत्मीयो नाम भूभुजाम् । 
होतारं अपि जुह्वानं स्पृष्टो वहति पावकः ॥५७॥

मौन्ॐऊकः प्रवचनपटुर्बाटुलो जल्पको वा 
धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः । 
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः 
सेवाधर्मः परमगहनो योगिनां अप्यगम्यः ॥५८॥

उद्भासिताखिलखलस्य विशृङ्खलस्य 
प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः । 
दैवादवाप्तविभवस्य गुणद्विषोऽस्य 
नीचस्य गोचरगतैः सुखं आप्यते ॥५९॥

आरम्भगुर्वी क्षयिणी क्रमेण 
लघ्वी पुरा वृद्धिमती च पश्चात् । 
दिनस्य पूर्वार्धपरार्धभिन्ना 
छायेव मैत्री खलसज्जनानाम् ॥६०॥

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनां । 
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥६१॥

वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता 
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयं । 
भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले 
येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥६२॥

विपदि धैर्यं अथाभ्युदये क्षमा 
सदसि वाक्यपटुता युधि विक्रमः । 
यशसि चाभिरुचिर्व्यसनं श्रुतौ 
प्रकृतिसिद्धं इदं हि महात्मनाम् ॥६३॥

प्रदानं प्रच्छन्नं गृहं उपगते सम्भ्रमविधिः 
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । 
अनुत्सेको लक्ष्म्यां अनभिभवगन्धाः परकथाः 
सतां केनोद्दिष्टं विषमं असिधाराव्रतं इदम् ॥६४॥

करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता 
मुखे सत्या वाणी विजयि भुजयोर्वीर्यं अतुलं । 
हृदि स्वच्छा वृत्तिः श्रुतिं अधिगतं च श्रवणयोर् 
विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनं इदम् ॥६५॥

सम्पत्सु महतां चित्तं 
भवत्युत्पलक्ॐअलं ।

आपत्सु च महाशैलशिला 
सङ्घातकर्कशं ॥६६॥

सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते 
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । 
स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते 
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥६७॥

प्रीणाति यः सुचरितैः पितरं स पुत्रो 
यद्भर्तुरेव हितं इच्छति तत्कलत्रं । 
तन्मित्रं आपदि सुखे च समक्रियं यद् 
एतत्त्रयं जगति पुण्यकृतो लभन्ते ॥६८॥

एको देवः केशवो वा शिवो वा 
ह्येकं मित्रं भूपतिर्वा यतिर्वा । 
एको वासः पत्तने वा वने वा 
ह्येका भार्या सुन्दरी वा दरी वा ॥६९॥

नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान्ख्यापयन्तः 
स्वार्थान्सम्पादयन्तो विततपृथुतरारम्भयत्नाः परार्थे । 
क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान्दुर्जनान्दूषयन्तः 
सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥७०॥

 

भवन्ति नम्रास्तरवः फलोद्गमैर् 
नवाम्बुभिर्दूरावलम्बिनो घनाः । 
अनुद्धताः सत्पुरुषाः समृद्धिभिः 
स्वभाव एष परोपकारिणां ॥७१॥

श्रोत्रं श्रुतेनैव न कुण्डलेन 
दानेन पाणिर्न तु कङ्कणेन । 
विभाति कायः करुणपराणां 
परोपकारैर्न तु चन्दनेन ॥७२॥

पापान्निवारयति योजयते हिताय 
गुह्यं निगूहति गुणान्प्रकटीकरोति । 
आपद्गतं च न जहाति ददाति काले 
सन्मित्रलक्षणं इदं प्रवदन्ति सन्तः ॥७३॥

पद्माकरं दिनकरो विकचीकरोति 
चम्द्र्प्वोलासयति कैरवचक्रवालं । 
नाभ्यर्थितो जलधरोऽपि जलं ददाति 
सन्तः स्वयं परहिते विहिताभियोगाः ॥७४॥

एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यजन्ति ये 
सामान्यास्तु परार्थं उद्यमभृतः स्वार्थाविरोधेन ये । 
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये 
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥७५॥

क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा तेऽखिला 
क्षीरोत्तापं अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः । 
गन्तुं पावकं उन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं 
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥७६॥ 

इतः स्वपिति केशवः कुलं इतस्तदीयद्विषाम् 
इतश्च शरणार्थिनां शिखरिणां गणाः शेरते । 
इतोऽपि बडवानलः सह समस्तसंवर्तकैऋ 
अहो विततं ऊर्जितं भरसहं सिन्धोर्वपुः ॥७७॥

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः 
सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनं । 
मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं 
कीर्तिं पालय दुःखिते कुरु दयां एतत्सतां चेष्टितं ॥७८॥ 

मनसि वचसि काये पुण्यपीयूषपूर्णास् 
त्रिभुवनं उपकारश्रेणिभिः प्रीणयन्तः । 
परगुणपरमाणून्पर्वतीकृत्य नित्यं 
निजहृदि विकसन्तः सन्त सन्तः कियन्तः ॥७९॥

किं तेन हेमगिरिणा रजताद्रिणा वा 
यत्राश्रिताश्च तरवस्तरवस्त एव । 
मन्यामहे मलयं एव यद्आश्रयेण 
कङ्कोलनिम्बकटुजा अपि चन्दनाः स्युः ॥८०॥

रत्नैर्महार्हैस्तुतुषुर्न देवा 
न भेजिरे भीमविषेण भीतिं । 
सुधां विना न परयुर्विरामं 
न निश्चितार्थाद्विरमन्ति धीराः ॥८१॥

क्वचित्पृथ्वीशय्यः क्वचिदपि च परङ्कशयनः 
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । 
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो 
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥८२॥

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो 
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । 
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्वाजता 
सर्वेषां अपि सर्वकारणं इदं शीलं परं भूषणम् ॥८३॥
 

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु 
लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठं । 
अद्यैव वा मरणं अस्तु युगान्तरे वा 
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥८४॥

भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा 
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । 
तृप्तस्तत्पिशितेन सत्वरं असौ तेनैव यातः यथा 
लोकाः पश्यत दैवं एव हि नृणां वृद्धौ क्षये कारणम् ॥८५॥ 


आलस्यं हि मनुष्याणां शरीरस्थो महान्रिपुः । 
नास्त्युद्यमसमो बन्धुः कुर्वाणो नावसीदति ॥८६॥

छिन्नोऽपि रोहति तर्क्षीणोऽप्युपचीयते पुनश्चन्द्रः । 
इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥८७॥
 

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः 
स्वर्गो दुर्गं अनुग्रहः किल हरेरैरावतो वारणः । 
इत्यैश्वर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे 
तद्व्यक्तं ननु दैवं एव शरणं धिग्धिग्वृथा पौरुषं ॥८८॥  

कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । 
तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥८९॥

खल्वातो दिवसेश्वरस्य किरणैः सन्ताडितो मस्तके 
वाञ्छन्देशं अनातपं विधिवशात्तालस्य मूलं गतः । 
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः 
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥९०॥ 

रविनिशाकरयोर्ग्रहपीडनं 
गजभुजङ्गमयोरपि बन्धनं । 
मतिमतां च विलोक्य दरिद्रतां 
विधिरहो बलवानिति मे मतिः ॥९१॥

सृजति तावदशेषगुणकरं 
पुरुषरत्नं अलङ्करणं भुवः । 
तदपि तत्क्षणभङ्गि करोति 
चेदहह कष्टं अपण्डितता विधेः ॥९२॥

पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् 
नोलूकोऽप्यवओकते यदि दिवा सूर्यस्य किं दूषणं । 
धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम् 
यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥९३॥

नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा 
विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । 
फलं कर्मायत्तं यदि किं अमरैः किं च विधिना 
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥९४॥

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माडभाण्डोदरे 
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । 
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः 
सूर्यो भ्राम्यति नित्यं एव गगने तस्मै नमः कर्मणे ॥९५॥

नैवाकृतिः फलति नैवा कुलं न शीलं 
विद्यापि नैव न च यत्नकृतापि सेवा । 
भाग्यानि पूर्वतपसा खलु सञ्चितानि 
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥९६॥

वने रणे शत्रुजलाग्निमध्ये 
महार्णवे पर्वतमस्तके वा । 
सुप्तं प्रमत्तं विषमस्थितं वा 
रक्षन्ति पुण्यानि पुराकृतानि ॥९७॥

या साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः 
प्रत्यक्षं कुरुते परीक्षं अमृतं हालाहलं तत्क्षणात् । 
तां आराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं 
हे साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥९८॥

 

गुणवदगुणवद्वा कुर्वता कार्यजातं 
परिणतिरवधार्या यत्नतः पण्डितेन । 
अतिरभसकृतानां कर्मणां आविपत्तेर् 
भवति हृदयदाही शल्यतुल्यो विपाकः ॥९९॥

स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चन्दनैरिन्धनौघैः 
सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधां अर्कमूलस्य हेतोः । 
कृत्वा कर्पूरखण्डान्वृत्तिं इह कुरुते कोद्रवाणां समन्तात् 
प्राप्येमां कर्म्भूमिं न चरति मनुजो यस्तोप मन्दभाग्यः ॥१००॥

मज्जत्वम्भसि यातु मेरुशिखरं शत्रुं जयत्वाहवे 
वाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षतां । 
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं 
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥१०१॥ 

भीमं वनं भवति तस्य पुरं प्रधानं 
सर्वो जनः स्वजनतां उपयाति तस्य । 
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा 
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥१०२॥


को लाभो गुणिसङ्गमः किं असुखं प्राज्ञेतरैः सङ्गतिः 
का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः । 
कः शूरो विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं 
विद्या किं सुखं अप्रवासगमनं राज्यं किं आज्ञाफलं ॥१०३॥ 
 

अप्रियवचनदरिद्रैः प्रियवचनधनाढ्यैः स्वदारपरितुष्टैः । 
परपरिवादनिवृत्तैः क्वचित्क्वचिन्मण्डिता वसुधा ॥१०४॥

कदर्थितस्यापि हि धैर्यवृत्तेर् 
न शक्यते धैर्यगुणः प्रमार्ष्टुम् । 
अधोमुखस्यापि कृतस्य वह्नेर् 
नाधः शिखा याति कदाचिदेव ॥१०५॥

कान्ताकटाक्षविशिखा न लुनन्ति यस्य 
चित्तं न निर्दहति किपकृशानुतापः । 
कर्षन्ति भूरिविषयाश्च न लोभपाशैर् 
लोकत्रयं जयति कृत्स्नं इदं स धीरः ॥१०६॥

एकेनापि हि शूरेण पादाक्रान्तं महीतलं । 
क्रियते भास्करेणैव स्फारस्फुरिततेजसा ॥१०७॥ 

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान् 
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते । 
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते 
यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥१०८॥

लज्जागुणौघजननीं जननीं इव स्वाम् 
अत्यन्तशुद्धहृदयां अनुवर्तमानाम् । 
तेजस्विनः सुखं असूनपि सन्त्यजनति

सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥१०९॥

शृङ्गारशतकम्

शम्भुस्वयम्भुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकुम्भदासाः ।
वाचां अगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥१॥
 

स्मितेन भावेन च लज्जया भिया
पराण्मुखैरर्धकटाक्षवीक्षणैः ।
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बन्धनं स्त्रियः ॥२॥
 

भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितान्ताश्च हासाः ।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणां एतद्भूषणं चायुधं च ॥३॥
 

क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः ।
कुमारीणां एतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥४॥

वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णः स्वर्णं अपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
बक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनं॥५॥

स्मितकिञ्चिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पन्दो वाचां अभिनवविलासोक्तिसरसः ।
गतानां आरम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किं इव न हि रम्यं मृगदृशः ॥६॥

द्रष्टव्येषु किं उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातवेष्वपि किं तद्आस्यपवनः श्रव्येषु किं तद्वचः ।
किं स्वाद्येषु तद्ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं
किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥७॥

एताश्चलद्वलयसंहतिमेखलोत्थझङ्कार
नूपुरपराजितराजहंस्यः ।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥८॥

कुङ्कुमपङ्ककलङ्कितदेहा
गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पद्मा
कं न वशीकुरुते भुवि रामा ॥९॥

नूनं हि ते कविवरा विपरीतवाचो
ये नित्यं आहुरबला इति कामिनीस्ताः ।
याभिर्विलोलितरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥१०॥

नूनं आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥११॥
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रं अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।

मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमावित्थं
तन्वि वपुः प्रशान्तं अपि तेरागं करोत्येव नः ॥१२॥

मुग्धे धानुष्कता केयं अपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥१३॥
सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु ।
विना मे मृगशावाक्ष्या तमोभूतं इदं जगथ् ॥२.१४॥

उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितं ओष्ठपल्लवं इदं कुर्वन्तु नाम व्यथां ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापं अधिकं र्ॐआवलिः केन सा ॥१५॥

मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥१६॥

गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥१७॥
 

तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किं आकुलत्वं ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥१८॥

इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप
प्रारम्भाः स्मरविजयदानप्रतिभुवः ।
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किं अपि विजयन्ते मृगदृशां॥१९॥

प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनी
रहसि किं अपि स्वैरालापा हरन्ति मृगीदृशां॥२०॥

विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन
निवारयन्ती शशिनो मयूखान्॥२१॥

अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वङ्गसुखैकलोला ।
आलिङ्गितायां पुनरायताक्ष्यामाशास्महे
विग्रहयोरभेदं॥२२॥

मालती शिरसि जृम्भणं मुखे
चन्दनं वपुषि कुङ्कुमाविलं ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥२३॥
 

प्राङ्मां एति मनागनागतरसं जाताभिलाषां ततः
सव्रीडं तदनु श्लथोद्यमं अथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो
निःसङ्गाङ्गविकर्षणाधिकसुखरम्यं कुलस्त्रीरतं॥२४॥
 

उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किञ्चिद्उन्मीलितानां ।
उपरि सुरतखेदस्विन्नगण्डस्थलानामधर
मधु वधूनां भाग्यवन्तः पिबन्ति ॥२५॥
 

आमीलितनयनानां यः
सुरतरसोऽनु संविदं भाति ।
मिथुरैर्मिथोऽवधारितमवितथम्
इदं एव कामनिर्बर्हणं॥२६॥ 


इदं अनुचितं अक्रमश्च पुंसां
यदिह जरास्वपि मन्मथा विकाराः ।
तदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा ॥२७॥

राजस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म यावद्विकसितनयनेन्दीवरालोकिनीनामाक्रम्याक्रम्य
रूपं झटिति न जरया लुप्यते प्रेयसीनां॥२८॥

रागस्यागारं एकं नरकशतमहादुःखसम्प्राप्तिहेतुर्मोहस्योत्पत्ति
बीजं जलधरपटलं ज्ञानताराधिपस्य ।
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ॥२९॥

शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥३०॥

संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्ग
व्यस्तधैर्यं कथं अमलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यद्इन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥३१॥

सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे
गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥३२॥

संसार तव पर्यन्तपदवी न दवीयसी ।
अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणां॥३३॥
 

दिश वनहरिणीभ्यो वंशकाण्डच्छवीनां
कवलं उपलकोटिच्छिन्नमूलं कुशानां ।
शकयुवतिकपोलापाण्डुताम्बूलवल्लीदलम् 

अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥३४॥
 

असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदं इति ।
तथाप्येतद्भूमौ नहि परहितात्पुण्यं अधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यं अपरम् ॥३५॥ 


एतत्कामफलो लोके यद्द्वयोरेकचित्तता ।
अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥३५*१॥

मात्सर्यं उत्सार्य विचार्य कार्यमार्याः
समर्यादं इदं वदन्तु ।
सेव्या नितम्बाः किं उ भूधराणामत
स्मरस्मेरविलासिनीनां॥३६॥

संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् ।
नो चेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसम्भोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानां॥३७॥
 

आवासः क्रियतां गङ्गे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥३८॥

किं इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम्
इह पुरुषाणां सर्वदा सेवनीयं ।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥३९॥

सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सप्तस्वपि तथ्यं एतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुर्न च कश्चिदन्यः ॥४०॥

कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुङ्ग
पयोधरेति समुखाम्भोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितं॥४१॥

स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथं॥४२॥
तावदेवामृतमयी यावल्लोचनगोचरा ।
चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥४३॥

नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीं ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥४४॥

आवर्तः संशयानां अविनयभुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रं अप्रत्ययानां ।

स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरण्डं
स्त्रीयन्त्रं केन सृष्टं विषं अमृतमयं प्राणिलोकस्य पाशः ॥४५॥

नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं
लोचनतां गत न कनकैरप्यङ्गयष्टिः कृता ।
किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥४६॥

लीलावतीनां सहजा विलासास्त
एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्गसिद्धस्तत्र
भ्रम्त्येव वृथा षड्अङ्घ्रिः ॥४७॥

संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरन्ति ॥४७*१॥

यदेतत्पूर्णेन्दुद्युतिहरं उदाराकृति परं
मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधु ।
इदं तत्किं पाकद्रुमफलं इदानीं अतिरसव्यतीतेऽस्मिन्
काले विषं इव भविष्य्त्यसुखदं॥४८॥

उन्मीलत्त्रिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तनद्वन्द्वेनोद्गत
चक्रवाकयुगला वक्त्राम्बुजोद्भासिनी ।
कान्ताकारधरा नदीयं अभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यतां॥४९॥

जल्पन्ति सार्धं अन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषितां॥५०॥
 

मधु तिष्ठति वाचि योषितां हृदि हालाहलं एव केवलं ।
अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥५१॥
 

अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुं औषधैश्चतुर्
वनिताभोगिग्रस्तं हि मन्त्रिणः ॥५२॥

विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशं अत्र भवाम्बुराशौ ।
येनाचिरात्तद्अधरामिषलोलमर्त्य
मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ॥५३॥

कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा संचर मनः पान्थ तत्रास्ते स्मरतस्करः ॥५४॥

व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परं अहं दृष्टो न तच्चक्षुषा ।

दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो
मुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधं॥५५॥
 

इह हि मधुरगीतं नृत्यं एतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानां ।
इति हतपरमार्थैरिन्द्रियैर्भ्राम्यमाणः
स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ॥५६॥
 

न गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कं अपि विदधद्भङ्गं असकृत्
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥५७॥

जात्य्अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छन्तीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥५८॥

वेश्यासौ मदनज्वाला रूपेऽन्धनविवर्धिता ।
कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥५९॥

कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञं अपि ।
चारभटचोरचेटकनटविटनिष्ठीवनशरावं॥६०॥

धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणां ।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिं एति मनो न येषां॥६१॥

बाले लीलामुकुलितं अमी मन्थरा दृष्टिपाताः
किं क्षिप्यन्ते विरमविरम व्यर्थ एष श्रमस्ते ।
सम्प्रत्यन्ये वयं उपरतं बाल्यं आस्था वनान्ते
क्षीणो मोहस्तृणं इव जगज्जालं आलोकयामः ॥६२॥

इयं बाला मां प्रत्यनवरतं इन्दीवरदलप्रभा
चीरं चक्षुः क्षिपति किं अभिप्रेतं अनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकरज्वर
ज्वाला शान्ता तदपि न वराकी विरमति ॥६३॥

किं कन्दर्प करं कदर्थयसि रे कोदण्डटङ्कारितं
रे रे कोकिल क्ॐअलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥६४॥

विरहेऽपि सङ्गमः खलु
परस्परं सङ्गतं मनो येषां ।
हृदयं अपि विघट्टितं चेत्
सङ्गी विरहं विशेषयति ॥६५॥

किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किं ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमन्दिरं॥६६॥

विरमत बुधा योषित्सङ्गात्सुखात्क्षणभङ्गुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमं ।
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणं अथवा श्रोणीबिम्बं रणन्मणिमेखलं॥६७॥

यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना
मैत्री स्फुरति कृतिनस्तस्य किं उ तैः ।
प्रियाणां आलापैरधरमधुभिर्वक्त्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥६८॥

यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टनारीमयं इदं अशेषं जगदिति ।
इदानीं अस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनं अपि ब्रह्म मनुते ॥६९॥

तावदेव कृतिनां अपि स्फुरत्येष
निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां
ताड्यते चटुललोचनाञ्चलैः ॥७०॥

वचसि भवति सङ्गत्यागं उद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानां ।
जघनं अरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥७१॥

स्वपरप्रतारकोऽसौ
निन्दति योऽलीकपण्डितो युवतीः ।
यस्मात्तपसोऽपि फलं
स्वर्गः स्वर्गेऽपि चाप्सरसः ॥७२॥

मत्तेभकुम्भदलने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।
किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः ॥७३॥

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयं अपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥७४॥

उन्मत्तप्रेमसंरम्भाद् आरभन्ते यद्अङ्गनाः ।
तत्र प्रत्यूहं आधातुं ब्रह्मापि खलु कातरः ॥७५॥

तावन्महत्त्वं पाण्डित्यं
कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु
हतः पञ्चेषुपावकः ॥७६॥

शास्त्रज्ञोऽपि प्रगुणितनयोऽत्यान्तबाधापि बाढं
संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनां ।
येनैतस्मिन्निरयनगरद्वारं उद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥७७॥

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीं अन्वेति श्वा हतं अपि च हन्त्येव मदनः ॥७८॥

स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।

ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥७९॥
विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि
स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।

शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेषाम्
इन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥८०॥

परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो
मधुरविधुरोत्कण्ठाभाजः प्रिया पिकपक्षिणां ।
विरलविरसस्वेदोद्गारा वधूवदनेन्दवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥८१॥

मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधापि विषायते ॥८२॥

आवासः किलकिञ्चितस्य दयितापार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥८३॥
 

पान्थ स्त्रीविरहानलाहुतिकलां आतन्वती मञ्जरीमाकन्देषु
पिकाङ्गनाभिरधुना सोत्कण्ठं आलोक्यते ।
अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा
वान्तिक्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥८४॥

प्रथितः प्रणयवतीनां
तावत्पदं आतनोतु हृदि मानः ।
भवति न यावच्चन्दनतरु
सुरभिर्मलयपवमानः ॥८५॥

सहकारकुसुमकेसरनिकर
भरामोदमूर्च्छितदिग्अन्ते ।
मधुरमधुरविधुरमधुपे
मधौ भवेत्कस्य नोत्कण्ठा ॥८६॥

अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च क्ॐउदी च ।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥८७॥

स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदं ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाघर्तावेतद्विलसति लभन्ते सुकृतिनः ॥८८॥

सुधाशुभ्रं धाम स्फुरद्अमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभिः ।
स्रजो हृद्यामोदास्तदिदं अखिलं रागिणि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥८९॥

तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा
प्रावृट्तनुते कस्य न हर्षं॥९०॥

वियद्उपचितमेघं भूमयः कन्दलिन्यो
नवकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनं असुखिनं वा सर्वं उत्कण्ठयन्ति ॥९१॥

उपरि घनं घनपटलं
तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कन्दलधवला
दृष्टिं पथिकः क्व पातयति ॥९२॥

इतो विद्युद्वल्लीविलसितं इतः केतकितरोः
स्फुरन्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितं इतः ।
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥९३॥

असूचिसञ्चारे तमसि नभसि प्रौढजलदध्वनि
प्राज्ञंमन्ये पतति पृषतानां च निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशां॥९४॥

आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तं आयतदृशा गाढं समालिङ्ग्यते ।
जाताः शीकरशीतलाश्च मरुतोरत्यन्तखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥९५॥

अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथाङ्गप्रोद्भूतासह्य
तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः ॥९६॥

हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥९७॥
 

प्रदुयत्प्रौढप्रियङ्गुद्युतिभृति विकसत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमन्दारधाम्नि ।
येषां नो कण्ठलग्ना क्षणं अपि तुहिनक्षोददक्षा मृगाक्षी
तेसां आयामयामा यमसदनसमा यामिनी याति यूनां॥९८॥
 

चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदं आपादयन्तः ।
ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोऽंशुकानि
व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥९९॥

केशानाकुलयन्दृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्
पुलकोद्गमं प्रकटयन्नावेगकम्पं शनैः ।
बारं बारं उदारसीत्कृतकृतो दन्तच्छदान्पीडयन्
प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥१००॥

यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि ।
रमणीयेऽपि सुधांशौ न मनःकामः सरोजिन्याः ॥१०१॥

वैराग्ये संचरत्येको नीतौ भ्रमति चापरः ।

शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परं॥१०२॥

वैराग्यशतकम्

चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो 
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् । 
अन्तःस्फूर्जद्अपारमोहतिमिरप्राग्भारं उच्चाटयन् 
श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥१॥ 

भ्रान्तं देशं अनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं 
त्यक्त्वा जातिकुलाभिमानं उचितं सेवा कृता निष्फला । 
भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत् 
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥२॥ 

उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो 
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः । 
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः 
प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥३॥ 

खलालापाः सौढाः कथं अपि तद्आराधनपरैर्निगृह्यान्तर् 
बाष्पं हसितं अपि शून्येन मनसा । 
कृतो वित्तस्तम्भप्रतिहतधियां अञ्जलिरपि 
त्वं आशे मोघाशे किम अपरं अतो नर्तयसि मां॥४॥ 

अमीषां प्राणानां तुलितविसिनीपत्रपयसां 
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितं । 
यद्आढ्यानां अग्रे द्रविणमदनिःसंज्ञमनसां 
कृतं मावव्रीडैर्निजगुणकथापातकं अपि ॥५॥ 

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः 
सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः । 
ध्यातं वित्तं अहर्निशं नित्यमितप्राणैर्न शम्भोः पदं 
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥६॥ 

भोगा न भुक्ता वयं एव भुक्तास् 
तपो न तप्तं वयं एव तप्ताः । 
कालो न यातो वयं एव यातास्तृष्णा 
न जीर्णा वयं एव जीर्णाः ॥७॥ 

बलिभिर्मुखं आक्रान्तं पलितेनाङ्कितं शिरः । 
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥८॥ 
विवेकव्याकोशे विदधति समे शाम्यति तृषा 
परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता । 

जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं 
यस्यां भवति मरुतां अप्यधिपतिः ॥८*१॥ 
निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः 
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः । 

शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने 
अहो मूढः कायस्तदपि मरणापायचकितः ॥९॥ 
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला 
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । 

मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी 
तस्याः परगता विशुद्धं अलसो नन्दन्ति योगीश्वराः ॥१०॥ 
न संसारोत्पन्नं चरितं अनुपश्यामि कुशलं 
विपाकः पुण्यानां जनयति भयं मे विमृशतः । 

महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया 
महान्तो जायन्ते व्यसनं इव दातुं विषयिणां॥११॥ 
 

अवश्यं यातारश्चिरतरं उषित्वापि विषया 
वियोगे को भेदस्त्यजति न जनो यत्स्वयं अमून् । 
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः 
स्वयं त्यक्ता ह्येते शमसुखं अनन्तं विदधति ॥१२॥ 

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं 
यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः । 
सम्प्रातान्न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान् 
वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयं॥१३॥ 

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु 
जलं पिबन्ति शकुना निःशङ्कं अङ्केशयाः । 
अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा 
काननकेलिकौतुकजुषां आयुः परं क्षीयते ॥१४॥ 

भिक्षाशतं तदपि नीरसं एकबारं 
शय्या च भूः परिजनो निजदेहमात्रं । 
वस्त्रं विशीर्णशतखण्डमयी च कन्था 
हा हा तथापि विषया न परित्यजन्ति ॥१५॥ 

स्तनौ मांसग्रन्थी कनककलशावित्युपमिती 
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितं । 
स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं 
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरुकृतं॥१६॥ 

एको रागिषु राजते प्रियतमादेहार्धहारी हरो 
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः । 
दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनः 
शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥१७॥ 

अजानन्दाहात्म्यं पततु शलभस्तीव्रदहने 
स मीनोऽप्यज्ञानाद्बडिशयुतं अश्नातु पिशितं । 
विजानन्तोऽप्येते वयं इह वियज्जालजटिलान् 
न मुञ्चामः कानां अहह गहनो मोहमहिमा ॥१८॥ 

तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं 
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितं । 
प्रदीप्ते कामाग्नौ सुदृढतरं आलिङ्गति वधूं 
प्रतीकारं व्याधः सुखं इति विपर्यस्यति जनः ॥१९॥ 

तुङ्गं वेश्म सुताः सतां अभिमताः सङ्ख्यातिगाः सम्पदः 
कल्याणी दयिता वयश्च नवं इत्यज्ञानमूढो जनः । 
मत्वा विश्वं अनश्वरं निविशते संसारकारागृहे 
संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥२०॥ 

दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा 
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी । 
याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं 
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान्॥२१॥ 

अभिमतमहामानग्रन्थिप्रभेदपटीयसी 
गुरुतरगुणग्रामाभोजस्फुटोज्ज्वलचन्द्रिका । 
विपुलविलल्लज्जावल्लीवितानकुठारिका 
जठरपिठरी दुस्पुरेयं करोति विडम्बनं॥२२॥ 

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं 
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे । 

द्वारं द्वारं प्रविष्टो वरं उदरदरीपूरणाय क्षुधार्तो 
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येसु दीनः ॥२३॥ 

गङ्गातरङ्गकणशीकरशीतलानि 
विद्याधराध्युषितचारुशिलातलानि । 
स्थानानि किं हिमवतः प्रलयं गतानि 
यत्सावमानपरपिण्डरता मनुष्याः ॥२४॥ 

किं कन्दाः कन्दरेभ्यः प्रलयं उपगता निर्झरा वा गिरिभ्यः 
प्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश्च शाखाः । 
वीक्ष्यन्ते यन्मुखानि प्रसभं अपगतप्रश्रयाणां खलानां 
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥२५॥ 

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना 
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनं । 
क्षुद्राणां अविवेकमूढमनसां यत्रेश्वराणां सदा 
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥२६॥ 

फलं स्वेच्छालभ्यं प्रतिवनं अखेदं क्षितिरुहां 
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां । 
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी 
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥२७॥ 

ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो 
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः । 
तेषां अन्तःस्फुरितहसितं वासराणि स्मरेयं 
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥२८॥ 

ये सन्तोषनिरन्तरप्रमुदितस्तेषां न भिन्ना मुदो 
ये त्वन्ये धनलुब्धसङ्कलधियस्तेसां न तृष्णाहता । 
इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं सम्पदां 
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥२९॥ 

भिक्षाहारं अदैन्यं अप्रतिसुखं भीतिच्छिदं सर्वतो 
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनं । 
सर्वत्रान्वहं अप्रयत्नसुलभं साधुप्रियं पावनं 
शम्भोः सत्रं अवायं अक्षयनिधिं शंसन्ति योगीश्वराः ॥३०॥ 

भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद्भयं 
माने धैन्यभयं बले रिपुभयं रूपे जराय भयं । 
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं 
सर्वं वस्तु भयान्वितं भुवि न्éणां वैराग्यं एवाभयं॥३१॥ 

आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं 
सन्तोषो धनलिप्सया शममुखं प्रौढाङ्गनाविभ्रमैः । 
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर् 
अस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा ॥३२॥ 

आधिव्याधिशतैर्जनस्य विविधैरारोग्यं उन्मूल्यते 
लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः । 
जातं जातं अवश्यं आशु विवशं मृत्युः करोत्यात्मसात् 
तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरं॥३३॥ 

भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः 
स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता । 
तत्संसारं असारं एव निखिलं बुद्ध्वा बुधा बोधका 
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयतां॥३४॥ 

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला 
आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरं । 
लीला यौवनलालसास्तनुभृतां इत्याकलय्य द्रुतं 
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥३५॥ 

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर् 
अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः । 
कण्ठाश्लेषोपगूढ तदपि च न चिरं यत्प्रियाभः प्रणीतं 
ब्रह्मण्यासक्तचित्ता भवत भवमयाम्भोधिपारं तरीतुं॥३६॥ 

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे 
कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः । 
वामाक्षीणां अवज्ञाविहसितवसतिर्वृद्धभावोऽन्यसाधुः 
संसारे रे मनुष्या वदत यदि सुखं स्वल्पं अप्यस्ति किञ्चिथ् ॥३७॥ 

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती 
रोगाश्च शत्रव इव प्रहरन्ति देहं । 
आयुः परिस्रवन्ति भिन्नघटादिवाम्भो 
लोकस्तथाप्यहितं आचरतीति चित्रं॥३८॥ 

भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत् 
कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः । 
आशापाशशतापशान्तिविशदं चेतःसमाधीयतां 
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्देयं अस्मद्वचः ॥३९॥ 

सखे धन्याः केचित्त्रुटितभवबन्धव्यतिकरा 
वनान्ते चित्तान्तर्विषं अविषयाशीत्विषगताः । 
शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगां 
नयन्ते ये रात्रिं सुकृतचयचिन्तैकशरणाः ॥३९*१॥ 

ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते 
यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः । 
भोगः कोऽपि स एव एक परमो नित्योदितो जृम्भते 
भोः साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥४०॥ 

सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत् 
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः । 
उद्वृत्तः स राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः 
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥४१॥ 

यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको 
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । 
इत्थं नयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ 
कालः कल्यो भुवनफलके क्रडति प्राणिशारैः ॥४२॥ 

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं 
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । 
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते 
पीत्वा मोहमयीं प्रमादमदिरां उन्मत्तभूतं जगथ् । । ३.४३॥ 

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो 
धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः । 
व्यापारैः पुनर्उक्तभूतविषयैरित्थं विधेनामुना 
संसारेण कदर्थिता वयं अहो मोहान्न लज्जामहे ॥४४॥ 

न ध्यानं पदं ईश्वरस्य विधिवत्संसारविच्छित्तये 
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः । 
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं 
मातुः केवलं एव यौवनवनच्छेदे कुठारा वयं॥४५॥ 
 

नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता 
खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः । 
कान्ताक्ॐअलपल्लवाधररसः पीतो न चन्द्रोदये 
तारुण्यं गतं एव निष्फलं अहो शून्यालये दीपवथ् ॥४६॥ 

विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं 
शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता । 
आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः 
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते ॥४७॥ 

वयं येभ्यो जाताश्चिरपरिगता एव खलु ते 
समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः । 
इदानीं एते स्मः प्रतिदिवसं आसन्नपतना 
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥४८॥ 

आयुर्वर्षशतं न्éणां परिमितं रात्रौ तद्अर्धं गतं 
तस्यार्धस्य परस्य चार्धं अपरं बालत्ववृद्धत्वयोः । 
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते 
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनां॥४९॥ 

क्षणं बालो भूत्वा क्षणं पै युवा कामरसिकः 
क्षणं वित्तैर्हीनः क्षणं अपि च सम्पूर्णविभवः । 
जराजीर्णैरङ्गैर्नट इव बलीमण्डिततनूर् 
नरः संसारान्ते विशति यमधानीयवनिकां॥५०॥ 

त्वं राजा वयं अप्युपासितगुरुप्रज्ञाभिमानोन्नताः 
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः । 
इत्थं मानधनातिदूरं उभयोरप्यावयोरन्तरं 
यद्यस्मासु पराङ्मुखोऽसि वयं अप्येकान्ततो निःस्पृहा ॥५१॥ 

अर्थानां ईशिषे त्वं वयं अपि च गिरां ईश्महे यावदर्थं 
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः । 
सेवन्ते त्वां धनाढ्या मतिमलहतयेमां अपि श्रोतुकामामय्य् 
अप्यास्था न ते चेत्त्वयि मम नितरां एव राजन्ननास्था ॥५२॥ 

वयं इह परितुष्टा वल्कलैस्त्वं दुकूलैः 
सम इह परितोषो निर्विशेषो विशेषः । 
स तु भवतु दरिद्रो यस्य तृष्णा विशाला 
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥५३॥ 

फलं अलं अशनाय स्वादु पानाय तोयं 
क्षितिरपि शयनार्थं वाससे वल्कलं च । 
नवघनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयम् 
अनुमन्तुं नोत्सहे दुर्जनानां॥५४॥ 

अश्नीमहि वयं भिक्षां आशावासो वसीमहि । 
शयीमहि महीपृष्ठे कुर्वीमहि किं ईश्वरैः ॥५५॥ 

न नटा ना विटा न गायका न च सभ्येतरवादचुञ्चवः । 
नृपं ईक्षितुं अत्र के वयं स्तनभारानमिता न योषितः ॥५६॥ 

विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा 
विधृतं अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । 
इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुञ्जते 
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥५७॥ 

अभुक्तायां यस्यां क्षणं अपि न यातं नृपशतैर् 
धुवस्तस्या लाभे क इव बहुमानः क्षितिभृतां । 
तद्अंशस्याप्यंशे तद्अवयलेशेऽपि पतयो 
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदं॥५८॥ 

मृत्पिण्डो जलरेखया बलयतिः सर्वोऽप्ययं नन्वणुः 
स्वांशीकृत्य स एव सङ्गरशतै राज्ञां गणा भुञ्जते । 
ये दद्युर्ददतोऽथवा किं अपरं क्षुद्रा दरिद्रं भृशं 
धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये ॥५९॥ 

स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं 
कपालं यस्योच्चैर्विनिहितं अलङ्कारविधये । 
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना 
नमद्भिः कः पुंसां अयं अतुलदर्पज्वरभरः ॥६०॥ 

परेषां चेतांसि प्रतिदिवसं आराध्य बहुधा 
प्रसादं किं नेतुं विशसि हृदय क्लेशकलितं । 
प्रसन्ने त्वय्यन्तःसवयमुदितचिन्तामणिगणो 
विविक्तः सङ्कल्पः किं अभिलषितं पुष्यति न ते ॥६१॥ 

सत्यां एव त्रिलोकीसरिति हरशिरश्चुम्बिनीवच्छटायां 
सद्वृत्तिं कल्पयन्त्यां बटविटपभवैर्वल्कलैः सत्फलैश्च । 
कोऽयं विद्वान्विपत्तिज्वरजनितरुजातीवदुःखासिकानां 
वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुम्बेऽनुकम्पां॥६१*१॥ 

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां 
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा । 
अतीतं अननुस्मरन्नपि च भाव्यसङ्कल्पयन्नतर्कित 
समागमानुभवामि भोगनाहं॥६२॥ 

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रयश्रेयो 
मार्गं अशेषदुःखशमनव्यापारदक्षं क्षणात् । 
स्वात्मीभावं उपैहि सन्त्यज निजां कल्लोललोलं गतिं 
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥६३॥ 

मोहं मार्जय तां उपार्जय रतिं चन्द्रार्धचूडामणौ 
चेतः स्वर्गतरङ्गिणीतटभुवां आसङ्गं अङ्गीकुरु । 
को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च 
ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः ॥६४॥ 

चेतश्चिन्तय मा रमां सकृदिमां अस्थायिनीं आस्थया 
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनां । 
कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या 
पङ्क्तिषु पाणिपात्रपतितां भिक्षां अपेक्षामहे ॥६५॥ 

अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः 
पश्चाल्लीलावलयरणितं चामरग्राहिणीनां । 
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं 
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥६६॥ 

प्राप्ताः श्रियः सकलकामदुधास्ततः किं 
न्यस्तं पदं शिरसि विद्विषतां ततः किं । 
सम्पादिताः प्रणयिनो विभवैस्ततः किं 
कल्पं स्थितास्तनुभृतां तनवस्ततः किं॥६७॥ 

भक्तिर्भवे मरणजन्मभयं हृदिस्थं 
स्नेहो न बन्धुषु न मन्मथजा विकाराः । 
संसर्ज दोषरहिता विजया वनान्ता 
वैराग्यं अस्ति किं इतः परमर्थनीयं॥६८॥ 

तस्मादनन्तं अजरं परमं विकासि 
तद्ब्रह्म चिन्तय किं एभिरसद्विकल्पैः । 
यस्यानुषङ्गिण इमे भुवनाधिपत्यभोगादयः 
कृपणलोकमता भवन्ति ॥६९॥ 

पातालं आविशसि यासि नभो विलङ्घ्य 
दिङ्मण्डलं भ्रमसि मानस चापलेन । 
भ्रान्त्यापि जातु विमलं कथं आत्मनीनं 
न ब्रह्म संसरसि विर्वृतिमं एषि येन ॥७०॥ 

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः 
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः । 
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं 
स्वात्मानन्दपदप्रवेशकलनं शेसैर्वाणिग्वृत्तिभिः ॥७१॥ 

नायं ते समयो रहस्यं अधुना निद्राति नाथो यदि 
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः । 
चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर् 
निर्दौवारिकनिर्दयोक्त्य्अपरुषं निःस्ॐअशर्मप्रदं॥७१*१॥ 

यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः 
समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः । 
धरा गच्छत्यन्तं धरणिधरपादैरपि धृता 
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥७२॥ 

गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिर् 
दृष्टिर्नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते । 
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते 
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥७३॥ 

वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां 
स्थानं जरापरिभवस्य तदा पुमांसं । 
आरोपितांस्थिशतकं परिहृत्य यान्ति 
चण्डालकूपं इव दूरतरं तरुण्यः ॥७४॥ 

यावत्स्वस्थं इदं शरीरं अरुजं यावच्च दूरे जरा 
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । 
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् 
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥७५॥ 

तपस्यन्तः सन्तः किं अधिनिवसामः सुरनदीं 
गुणोदारान्दारानुत परिचरामः सविनयं । 
पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान् 
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥७६॥ 

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो 
वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः । 
जरा देहं मृत्युर्हरति दयितं जीवितं इदं 
सखे नान्यच्छ्रेयो जगति विदुषेऽन्यत्र तपसः ॥७७॥ 

माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि 
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने । 
युक्तं केवलं एतदेव सुधियां यज्जह्नुकन्यापयःपूताग्राव 
गिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचिथ् । । ३.७८॥ 

रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली 
रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः । 
कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं 
सर्वं रम्यं अनित्यतां उपगते चित्ते न किञ्चित्पुनः ॥७९॥ 

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं 
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये । 
किन्तु भ्रान्तपतङ्गक्षपवनव्यालोलदीपाङ्कुरच्छाया 
चञ्चलं आकलय्य सकलं सन्तो वनान्तं गताः ॥८०॥ 

आ संसारात्त्रिभुवनं इदं चिन्वतां तात्तादृङ्नैवास्माकं 
नयनपदवीं श्रोत्रमार्गं गतो वा । 
योऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यान्तः 
करणकरिणः संयमालानलीलां॥८१॥ 

यदेतत्स्वच्छन्दं विहरणं अकार्पण्यं अशनं 
सहार्यैः संवासः श्रुतं उपशमैकव्रतफलं । 
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्न 
जाने कस्यैषा परिणतिरुदारस्य तपसः ॥८२॥ 

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं 
हन्ताङ्गेषु गुणाश्बन्ध्यफलतां याता गुणज्ञैर्विना । 
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी 
हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्यो गतिः ॥८३॥ 

महेश्वरे वा जगतां अधीश्वरे 
जनार्दने वा जगद्अन्तरात्मनि । 
न वस्तुभेदप्रतिपत्तिरस्ति मे 
तथापि भक्तिस्तरुणेन्दुशेखरे ॥८४॥ 

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने 
सुखासीनाः शान्तध्वन्तिसु रजनीषु द्युसरितः । 
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः 
कदा यास्यामोऽतर्गतबहुलबाष्पाकुलदशां॥८५॥ 

महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा 
एवागारं वसनं अपि ता एव हरितः । 
सुहृदा कालोऽयं व्रतं इदं अदैन्यव्रतं इदं 
कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥॥ 

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः 
स्मरन्तः संसारे विगुणपरिणामां विधिगतिं । 
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणास् 
त्रियामा नेस्यामो हरचरणचिन्तैकशरणाः ॥८६॥ 

कदा वाराणस्यां अमरतटिनीरोधसि वसन् 
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटं । 
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन 
प्रसीदेत्याक्रोशन्निमिषं इव नेष्यामि दिवसान्॥८७॥ 

उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः 
कौपीनावरणं सुवस्त्रं अमितं भिक्षाटनं मण्डनं । 
आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यते 
तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥॥ 

स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वा 
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले । 
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे 
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थं॥८८॥ 

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । 
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥८९॥ 
पाणिं पात्रयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां 
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यतां । 

अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा 
मध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनां॥९०॥ 
 

कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी 
नैश्चिन्त्यं निरपेक्षभैक्ष्यं अशनं निद्रा श्मशाने वने । 
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा 
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किं॥९१॥ 
 

ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः । 
शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ॥९२॥ 

मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूर् 
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणां असि । 
सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर् 
भिक्षावस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे ॥९३॥ 
 

महाशय्या पृथ्वी विपुलं उपधानं भुजलतां 
वितानं चाकाशं व्यजनं अनुकूलोऽयं अनिलः । 
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः 
सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥९४॥ 

भिक्षासी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा 
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः । 
रथ्याकीर्णविशीर्णजीर्णवसनः सम्प्राप्तकन्थासनो 
निर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः ॥९५॥ 

चण्डालः किं अयं द्विजातिरथवा शूद्रोऽथ किं तापसः 
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किं । 
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर् 
न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥९६॥ 

हिंसाशून्यं अयत्नलभ्यं अशनं धात्रा मरुत्कल्पितं 
व्यालानं पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः । 
संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां 
तां अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः ॥९७॥ 

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य 
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । 
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः 
कण्डूयन्ते जरठहरिणाः स्वाङ्गं अङ्गे मदीये ॥९८॥ 

जीर्णाः कन्था ततः किं सितं अमलपटं पट्टसूत्रं ततः किं 

एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किं । 
भक्तं भुक्तं ततः किं कदशनं अथवा वासरान्ते ततः किं 
व्यक्तज्योतिर्न वान्तर्मथितभवभयं वैभवं वा ततः किं॥॥ 

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यं अक्षय्यं अन्नं 
विस्तीर्णं वस्त्रं आशादशकं अचपलं तल्पं अस्वल्पं उर्वीं । 
येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिणस्ते 
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥९९॥ 

त्रैलोक्याधिपतित्वं एव विरसं यस्मिन्महाशासने 
तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः । 
भोगः कोऽपि स एक एव परमो नित्योदिता जृम्भने 
यत्स्वादाद्विरसा भवन्ति विसयास्त्रैलोक्यराज्यादयः॥९९*१॥ 

मातर्मेदिनि तात मारुति सखे तेजः सुबन्धो जल 
भ्रातर्व्य्ॐअ निबद्ध एष भवतां अन्त्यः प्रणामाञ्जलिः । 
युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त 
समस्तमोहमहिमा लीने परब्रह्मणि ॥१००॥ 

शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः 
सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः क्ॐअलैः । 
येसां निर्झरं अम्बुपानं उचितं रत्यै तु विद्याङ्गना 
मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः॥१००*१॥ 

धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी 
सत्यं मित्रं इदं दया च भगिनी भ्राता मनःसंयमः । 
शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं 
ह्येते यस्य कुटुम्बिनो वद सखे कस्माद्भयं योगिनः॥१००*२॥ 
 

अहो वा हारे वा बलवति रिपौ वा सुहृदि वा 
मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा । 
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः॥१००*३॥

  • YouTube
bottom of page