चैतन्य-शिक्षाष्टकम् / Chaitanya-Shikshashtakam
Source:
https://en.wikipedia.org/wiki/Shikshashtakam
https://sites.google.com/site/vedicscripturesinc/home/shikshashtakam
चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणं
श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनम् ।
आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनं
सर्वात्मस्नपनं परं विजयते श्रीकृष्णसङ्कीर्तनम् ॥१॥
नाम्नामकारि बहुधा निजसर्वशक्तिस्
तत्रार्पिता नियमितः स्मरणे न कालः ।
एतादृशी तव कृपा भगवन्ममापि
दुर्दैवमीदृशमिहाजनि नानुरागः ॥२॥
तृणादपि सुनीचेन तरोरिव सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥३॥
न धनं न जनं न सुन्दरीं
कवितां वा जगदीश कामये ।
मम जन्मनि जन्मनीश्वरे
भवताद् भक्तिरहैतुकी त्वयि ॥४॥
अयि नन्दतनुज किङ्करं
पतितं मां विषमे भवाम्बुधौ ।
कृपया तव पादपङ्कज-
स्थितधूलिसदृशं विचिन्तय ॥५॥
नयनं गलदश्रुधारया
वदनं गदगदरुद्धया गिरा ।
पुलकैर्निचितं वपुः कदा
तव नामग्रहणे भविष्यति ॥६॥
युगायितं निमेषेण चक्षुषा प्रावृषायितम् ।
शून्यायितं जगत्सर्वं गोविन्द विरहेण मे ॥७॥
आश्लिष्य वा पादरतां पिनष्टु माम्
अदर्शनान् मर्महतां करोतु वा ।
यथा तथा वा विदधातु लम्पटो
मत्प्राणनाथस्तु स एव नापरः ॥८॥
हरिस्तोत्रम्
जगज्जालपालं चलत्कण्ठमालं
शरच्चन्द्रभालं महादैत्यकालम् ।
नभोनीलकायं दुरावारमायं
सुपद्मासहायं भजेऽहं भजेऽहम् ॥१॥
सदाम्भोधिवासं गलत्पुष्पहासं
जगत्सन्निवासं शतादित्यभासम् ।
गदाचक्रशस्त्रं लसत्पीतवस्त्रं
हसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥२॥
रमाकण्ठहारं श्रुतिव्रातसारं
जलान्तर्विहारं धराभारहारम् ।
चिदानन्दरूपं मनोज्ञस्वरूपं
धृतानेकरूपं भजेऽहं भजेऽहम् ॥३॥
जराजन्महीनं परानन्दपीनं
समाधानलीनं सदैवानवीनम् ।
जगज्जन्महेतुं सुरानीककेतुं
त्रिलोकैकसेतुं भजेऽहं भजेऽहम् ॥४॥
कृताम्नायगानं खगाधीशयानं
विमुक्तेर्निदानं हरारातिमानम् ।
स्वभक्तानुकूलं जगद्वृक्षमूलं
निरस्तार्तशूलं भजेऽहं भजेऽहम् ॥५॥
समस्तामरेशं द्विरेफाभकेशं
जगद्बिम्बलेशं हृदाकाशदेशम् ।
सदा दिव्यदेहं विमुक्ताखिलेहं
सुवैकुण्ठगेहं भजेऽहं भजेऽहम् ॥६॥
सुरालिबलिष्ठं त्रिलोकीवरिष्ठं
गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् ।
सदा युद्धधीरं महावीरवीरं
महाम्भोधितीरं भजेऽहं भजेऽहम् ॥७॥
रमावामभागं तलानग्रनागं
कृताधीनयागं गतारागरागम् ।
मुनीन्द्रैः सुगीतं सुरैः सम्परीतं
गुणौधैरतीतं भजेऽहं भजेऽहम् ॥८॥
इदं यस्तु नित्यं समाधाय चित्तं
पठेदष्टकं कण्ठहारं मुरारेः ।
स विष्णोर्विशोकं ध्रुवं याति लोकं
जराजन्मशोकं पुनर्विन्दते नो ॥ ९॥
इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिस्तोत्रं सम्पूर्णम् ॥
श्रीकृष्णकृपाकटाक्षस्तोत्रम्
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम् ॥१॥
मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम् ।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णावारणम् ॥२॥
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम् ।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम् ॥३॥
सदैव पादपङ्कजं मदीय मानसे निजं
दधानमुक्तमालकं नमामि नन्दबालकम् ।
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम् ॥४॥
भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम् ।
दृगन्तकान्तभंगिनं सदा सदालिसंगिनं
दिने दिने नवं नवं नमामि नन्दसम्भवम् ॥५॥
गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् ।
नवीनगोपनागरं नवीनकेलिलम्पटं
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥६॥
समस्तगोपनन्दनं हृदम्बुजैकमोदनं
नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम् ।
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुञ्जनायकम् ॥७॥
विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामि कुञ्जकानने प्रव्रद्धवन्हिपायिनम् ।
किशोरकान्तिरञ्जितं दृगञ्जनं सुशोभितं
गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम् ॥८॥
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम् ।
प्रमाणिकाष्टकद्वयञ्जपत्यधीत्य यः पुमान्
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान् ॥९॥
॥ इति श्रीमच्छङ्कराचार्यकृतं श्रीकृष्णकृपाकटाक्षस्तोत्रं सम्पूर्णम् ॥
चौराष्टकम्
व्रजे प्रसिद्धं नवनीतचौरं
गोपाङ्गनानां च दुकूलचौरम् ।
अनेकजन्मार्जितपापचौरं
चौराग्रगण्यं पुरुषं नमामि ॥
श्रीराधिकाया हृदयस्य चौरं
नवाम्बुदश्यामलकान्तिचौरम् ।
पदाश्रितानां च समस्तचौरं
चौराग्रगण्यं पुरुषं नमामि ॥
अकिञ्चनीकृत्य पदाश्रितं यः
करोति भिक्षुं पथि गेहहीनम् ।
केनाप्यहो भीषणचौर ईदृग्
दृष्टःश्रुतो वा न जगत्त्रयेऽपि ॥
यदीय नामापि हरत्यशेषं
गिरिप्रसारानपि पापराशीन् ।
आश्चर्यरूपो ननु चौर ईदृग्
दृष्टः श्रुतो वा न मया कदापि ॥
धनं च मानं च तथेन्द्रियाणि
प्राणांश्च हृत्वा मम सर्वमेव ।
पलायसे कुत्र धृतोऽद्य चौर!
त्वं भक्तिदाम्नासि मया निरुद्धः ॥
छिनत्सि घोरं यमपाशबन्धं
भिनत्सि भीमं भवपाशबन्धम् ।
छिनत्सि सर्वस्य समस्तबन्धं
नैवात्मनो भक्तकृतं तु बन्धम् ॥
मन्मानसे तामसराशिघोरे
कारागृहे दुःखमये निबद्धः ।
लभस्व हे चौर! हरे! चिराय
स्वचौर्यदोषोचितमेव दण्डम् ॥
कारागृहे वस सदा हृदये मदीये
मद्भक्तिपाशदृढबन्धननिश्चलः सन् ।
त्वां कृष्ण हे! प्रलयकोटिशतान्तरेऽपि
सर्वस्वचौर! हृदयान्न हि मोचयामि ॥
॥ इति बिल्वमङ्गलेन विरचितं चौराष्टकं सम्पूर्णम् ॥
केवलाष्टकम्
मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम् ।
पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥१॥
आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत् ।
सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥२॥
स गुरुः स पिता चापि स माता बान्धवोऽपि सः ।
शिक्षयेच्चेत् सदा स्मर्तुं हरेर्नामैव केवलम् ॥३॥
निःश्वासे न हि विश्वासः कदा रुद्धो भविष्यति ।
कीर्तनियमतो बाल्याद् हरेर्नामैव केवलम् ॥४॥
हरिः सदा वसेत्तत्र यत्र भागवता जनाः ।
गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥५॥
अहो दुःखं महादुःखं दुःखाद् दुःखतरं परम् ।
काचर्तं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥६॥
दीयतां दीयतां कर्णो नीयतां नीयतां वचः ।
गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥७॥
तृणीकृत्य जगत्सर्वं राजते सकलोपरि ।
चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥८॥
॥ इति नीलकण्ठगोस्वामिना विरचितं केवलाष्टकं सम्पूर्णम् ॥
श्रीकृष्णलहरीस्तोत्रम्
वासुदेवानन्दसरस्वतीकृतम्
कदा वृन्दारण्ये विमलयमुनातीरपुलिने
चरन्तं गोविन्दं हलधरसुदामादिसहितं ।
अये कृष्णस्वामिन् मधुरमुरलीवादनविभो*
प्रसीदेत्याक्रोशन्** निमिषमिव नेष्यामि दिवसान् ॥१॥
( *अहो कृष्ण स्वामिन् मधुरमुरलीमोहन विभो )
( **प्रसीदेति क्रोशन् )
कदा कालिन्दीयैर्हरिचरणमुद्राङ्किततटैः
स्मरन्गोपीनाथं कमलनयनं सस्मितमुखम् ।
अहो पूर्णानन्दाम्बुजवदन भक्तैकललन
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥२॥
कदाचित्खेलन्तं व्रजपरिसरे गोपतनयैः
कुतश्चित्सम्प्राप्तं किमपि लसितं गोपललनम् ।
अये राधे किं वा हरसि रसिके कञ्चुकयुगं
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥३॥
कदाचिद्गोपीनां हसितचकितस्निग्धनयनं
स्थितं गोपीवृन्दे नटमिव नटन्तं सुललितम् ।
सुराधीशैः सर्वैः स्तुतपदमिदं श्रीहरिमिति
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥४॥
कदाचित्सच्छायाश्रितमभिमहान्तं यदुपतिं
समाधिस्वच्छायाञ्चल इव विलोलैकमकरम् ।
अये भक्तोदाराम्बुजवदन नन्दस्य तनय
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥५॥
कदाचित्कालिन्द्यास्तटतरुकदम्बे स्थितममुं
स्मयन्तं साकूतं हृतवसनगोपीसुतपदम् ।
अहो शक्रानन्दाम्बुजवदन गोवर्धनधर
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥६॥
कदाचित्कान्तारे विजयसखमिष्टं नृपसुतं
वदन्तं पार्थेति नृपसुत सखे बन्धुरिति च ।
भ्रमन्तं विश्रान्तं श्रितमुरलिमास्यं हरिममी
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥७॥
कदा द्रक्ष्ये पूर्णं पुरुषममलं पङ्कजदृशं
अहो विष्णो योगिन् रसिकमुरलीमोहन विभो ।
दयां कर्तुं दीने परमकरुणाब्धे समुचितं
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥८॥
Other similar verses by other poets: ( शिखरिणी छन्दः )
कदा वाराणस्याममरतटिनीरोधसि वसन्
वसान: कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहरशम्भो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषमेव नेष्यामि दिवसान् ॥ (वैराग्यशतक - भर्तृहरि)
कदा पुण्यक्षेत्रे करकलितरुद्राक्षवलयो
दधत्स्वान्ते शान्तेऽखिलशिवपदं श्रीशिवपदं ।
महेश श्रीकण्ठ स्मरहर हर त्र्यम्बक शिव
प्रसीदेत्याक्रोशान्निमिषमिव नेष्यामि दिवसान् ॥
कदा ब्रह्मेशानत्रिदशपतिमुख्यैः सुरगणैः
स्तुतं विष्वक्सेनं जितदनुजसेनं हृदि भजन् ।
अये विष्णो जिष्णो गरुडरथ विश्वम्भर हरे
प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥
कदा वा साकेते विमलसरयूतीरपुलिने
चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् ।
अये रामस्वामिञ्जनकतनयावल्लभ विभो
प्रसीदेत्याक्रोशन्निमिषमेव नेष्यामि दिवसान् ॥
कदा श्रीमत्पङ्केरुहवनविकाशिप्रसृमर-
प्रथापुञ्जं तेजः किमपि कलयन्नौपनिषदम् ।
ग्रहेश श्रीभानो मिहिर तरणे सूर्य सवितः
प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥
कदा वृन्दारण्ये मधुरमधुरानन्दरसदे
प्रियेश्वर्याः केलिभवननवकुञ्जानि मृगये ।
कदा श्रीराधायाः पदकमलमाध्वीकलहरी
परीवाहैश्चेतो मधुकरमधीरं मदयिता ॥ (श्रीराधारससुधानिधि - प्रबोधानन्दसरस्वती)
कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमहिते
मुहुर्भ्रामं भ्रामं चरितलहरीं गोकुलपतेः ।
लपन्नुच्चैरुच्चैर्नयनपयसां वेणिभिरहं
करिष्ये सोत्कण्ठो निबिडमवसेकं विटपिनाम् ॥ (रूपगोस्वामी)
कदा वृन्दारण्ये नवघननिभं नन्दतनयं
परीतं गोपीभिः क्षणरुचिमनोज्ञाभिरभितः ।
गमिष्यामस्तोषं नयनविषयीकृत्य कृतिनो
वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः ॥
कदा भागीरथ्या भवजलधिसंतारतरणेः
स्खलद्वीचीमालाचपलतलविस्तारितमुदः ।
तमःस्थाने कुञ्जे क्वचिदपि निविश्याऽहृतमना
भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥
कदा भिक्षाभक्तै: करकलितगङ्गाबुतरलै:
शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम् ।
कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगा:
पतिष्यन्ति स्थाणुभ्रमहतधिय: स्कन्धशिरसि ॥
कदा वृन्दारण्ये तरणितनयापुण्यपुलिने
स्मरन् श्रीगोपालं निमिषमिव नेष्यामि दिवसान् । (शङ्कराचार्य)
कदा शयानो मणिकर्णिकायां कर्णे जपाम्यक्षरमिन्दुमौलेः ।
अवाप्य मुद्रां गतमोहमुद्रां नालोकयिष्यामि पुनः प्रपञ्चं ॥
Source:
https://sanskritdocuments.org/doc_vishhnu/kRRiShNalaharIstotram.html
अभिलाषाष्टकम्
ब्रह्मानन्दविरचितम्
कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम्
रमासंश्लिष्टांगं गगनरुचमापीतवसनम् ।
गदाशंखाम्भोजारिवरमालोक्य सुचिरं
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥१॥
कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये
समासीनं पीठे जलधितनयालिंगिततनुम्।
स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतम्
स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥२॥
कदा मामाभीतं भयजलधितस्तापसतनुं
गता रागं गंगातटगिरिगुहावाससहनम् ।
लपन्तं हे विष्णो सुरवर रमेशेति सततं
समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥३॥
कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन्
सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ ।
स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥४॥
कदा मे भोगाशा निबिडभवपाशादुपरतं
तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् ।
मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥५॥
कदा मे संरुद्धाखिलकरणजालस्य परितो
जिताशेषप्राणानिलपरिकरस्य प्रजपतः ।
सदोंकारं चित्तं हरिपदसरोजे धृतवतः
समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥६॥
कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः
शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने ।
वदत्यूर्ध्वं शश्वन्मम वदनकञ्जे मुहुरहो
करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥७॥
कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां
चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः ।
घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-
र्गमिष्यामीशस्यांतिकमखिलदुःखान्तकमिति ॥८॥
Source:
https://groups.google.com/g/samskrita/c/-Le2wXtdJ4s
https://arvindkolhatkar.blogspot.com/2012/08/among-twenty-verses-extracted-below.html
हरिकुसुमस्तवकम्
श्रीलरूपगोस्वामिविरचितम्
गतिगञ्जितमत्ततरद्विरदं
रदनिन्दितसुन्दरसुन्दरकुन्दमदम् |
मदनार्बुदरूपमदघ्नरुचिं
रुचिरस्मितमञ्जरिमञ्जुमुखम् ||१||
मुखरीकृतवेणुहृतप्रमदं
मदवल्गितलोचनतामरसम् |
रसपूरविकासककेलिपरं
परमार्थपरायणलोकगतिम् ||२||
गतिमण्डितयामुनतीरभुवं
भुवनेश्वरवन्दितचारुपदम् |
पदकोज्ज्वलकोमलकण्ठरुचं
रुचकात्तविशेषकवल्गुतरम् ||३||
तरलप्रचलाकपरीतशिखं
शिखरीन्द्रधृतिप्रतिपन्नभुजम् |
भुजगेन्द्रफणाङ्गणरङ्गधरं
धरकन्दरखेलनलुब्धहृदम् ||४||
हृदयालुसुहृद्गणदत्तमहं
महनीयकथाकुलधूतकलिम् |
कलिताखिलदुर्जयबाहुबलं
बलवल्लवशावकसन्निहितम् ||५||
हितसाधुसमीहितकल्पतरुं
तरुणीगणनूतनपुष्पशरम् |
शरणागतरक्षणदक्षतमं
तमसाधुकुलोत्पलचण्डकरम् ||६||
करपद्ममिलत्कुसुमस्तवकं
वकदानवमत्तकरीन्द्रहरिम् |
हरिणीगणहारकवेणुकलं
कलकण्ठरवोज्ज्वलकण्ठरणम् ||७||
रणखण्डितदुर्जनपुण्यजनं
जनमङ्गलकीर्तिलताप्रभवम् |
भवसागरकुम्भजनामगुणं
गुणसङ्गविवर्जितभक्तगणम् ||८||
गणनातिगदिव्यगुणोल्लसितं
सितरश्मिसहोदरवक्त्रवरम् |
वरदृप्तवृषासुरदावघनं
घनविभ्रमवेशविहारमयम् ||९||
मयपुत्रतमःक्षयपूर्णविधुं
विधुरीकृतदानवराजकुलम् |
कुलनन्दनमत्र नमामि हरिं
हरितीकुरु मामकचित्तमरुम् ||१०||
उरसि परिस्फुरदिन्दिरमिन्दिन्दिरमन्दिरस्रजोल्लसितम् |
हरिमङ्गनातिमङ्गलमङ्गलसच्चन्दनं वन्दे ||११||